________________
विविधान् स्वपर्यायान् स्वीकरोति त्यजति चेति द्रव्यम् । द्रूयते वा-स्वपर्यायैरेवाद्रियते हीयते वा द्रव्यम् । 'द्रु' शब्दः सत्तार्थकः, द्रोः-सत्ताया एवावयवो विकारो वा द्रव्यम् । यतोऽवान्तर सत्तारूपाणि द्रव्याणि महासत्ताया विकारीऽवयवो वा भवन्त्येव । संद्रावः-गुणानां रसादीनां समूहो घटाद्यात्मको द्रव्यम् । तथा भाविनः पर्यायस्य (भावस्य), योग्यं यत्तद् द्रव्यम् । राजपर्यायार्हकुमारवत् ।
एवमेव. भूतस्य पर्यायस्याधारोऽपि द्रव्यं, अनुभूतघृतपर्याय-रिक्तघटवेत् । । उक्तं चान्यत्र---
"भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । . .... तद्र्व्यं तत्त्वज्ञैः, सचेतनाचेतनं कथितम् ॥” इति । ..
- अत्रेदं ध्येयं-भूतस्य भाविनो वा पर्यानस्य यद् योग्यं तदेव द्रव्यम् । - अन्यथा सर्वेषामपि पर्यायाणां भूतकालेऽनुभूतत्वादनुभविष्यमाणत्वाच्च भविष्य
काले सर्वस्यापि पुद्गलादेः सर्वदा सर्वद्रव्यत्वप्रसङ्गादिति । द्रव्यं च जीवा"स्तिकाय-अजीवास्तिकायभेदाद् द्विप्रकार, जीवधर्माऽधर्मा-ऽऽकाशास्तिकायकाल-पुद्गलभेदाद्वा षट्प्रकारं वक्ष्यते ।। र , गुणलक्षणमाह१५ द्रव्याश्रिता निर्गुणा गुणाः ॥
द्रव्यात्रितत्वे सति निर्गुणत्वं गुणस्य लक्षणम् । निर्गुणत्वमात्रोक्तौ पर्यायेष्वतिव्याप्तिरतो द्रव्याश्रितत्वम् । द्रव्याश्रितत्वस्य द्रव्येऽपि सत्त्वेन तद्वारणाय निर्गुणस्वम् ॥ ते च गुणा द्विविधाः, सामान्यगुणा विशेषगुणाश्च । तत्र
सामान्यगुणा अस्तित्व, वस्तुत्व, सामान्य-विशेषात्मकद्रव्यत्व, प्रमेयत्व, - अगुरुलघुत्व, प्रदेशत्व, चेतनत्व, अचेतनत्व, मूर्त्तत्व, अमूर्त्तत्वरूपा दश । .. सामान्यविशेषात्मकत्वं द्रव्यत्वविशिष्टद्रव्यस्य स्वरूपमिति ध्येयम् । विशेषगुणाश्च
ज्ञान, दर्शन, सुख, वीर्य, स्पर्श, रस, गन्ध, वर्ण, गतिहेतुत्व, स्थितिहेतुत्वा, ऽवगाहनहेतुत्व, वर्तनाहेतुल्व, चेतनत्वा, ऽचेतनत्व, मूर्तत्वा, ऽमूर्त्तवरूपाः