________________
, क्रमशो द्रव्यगुणपर्यायान् लक्षयितुमिच्छुः प्रथमं द्रव्यलक्षणमाह
गुणपर्यायवद् द्रव्यम् ॥
गुणेति। जैनानामयं सिद्धान्तः-"द्रव्यं पर्यायवियुतं नैव भवति कदाचिदपि कचिदपि च । पर्याया अपि द्रव्यं मुक्त्वा नैव स्थातुमर्हन्ति ।” यदुक्तमपि- -
"द्रव्यं पर्यायवियुत, पर्याया द्रव्यवर्जिताः । ____ ककदा केन किंरूपा दृष्टा मानेन केन वा ? ॥” इति ।
अतो ग्रन्थकारेण द्रव्यस्य 'गुणपर्यायवत्त्व लक्षणमभिहितम् । असाधारणधर्मस्य लक्षणत्वात् । असाधारणश्च स एव धर्मो यो कदाचिदपि धर्मिणं नैव विजहाल्यतस्तल्लक्षणं सिद्धान्तानुसारित्वेन समीचीनमेव । ___ ननु नैयायिकानामयं सिद्धान्तो यद् 'उत्पन्नं द्रव्यं क्षणं निर्गुणं निष्क्रिय च तिष्ठती' त्यत उत्पन्नमात्रस्य द्रव्यस्य निर्गुणक्रियत्वेन गुणपर्यायवत्त्वाभावात्तत्राव्याप्तिरिति चेन्न; अस्मन्मते सकलपदार्थस्योत्पादव्ययध्रौव्ययुक्तस्यैव सत्त्वात् , न कोऽपि पदार्थः पूर्वं सर्वथैव नासीदधुना नवोत्पन्न इति युक्तियुक्तं; द्रव्यात्मना सर्वस्यापि पदार्थस्य सर्वदैवास्तित्वात् । तर्हि उत्पन्न इति कोऽर्थः ? पर्यायात् पर्यायान्तरमापन्नः । घटः पूर्वमन्यपर्यायत्वेनाऽऽसीदधुना तु घटपर्यायतामाप्तवान् इत्येव 'उत्पत्ति' पदार्थः । तथा च यथा तत्पुरोगामिपर्याये तथा घटपर्यायेऽपि मृत्तिकात्मकं द्रव्यमनुस्यूतमेव, तच्च ध्रुवम् । पर्यायत्वेन तस्योत्पादव्ययात्मकत्वेऽपि द्रव्यात्मना नित्यत्वात् । एवं चोभयपर्यायानुस्यूतद्रव्ये वर्णगन्धरसस्पर्शादिगणाः पूरणगलनादिरूपाः क्रियाश्च सन्त्येव सदा । गुणवियुतं द्रव्यं नास्येवात्र विश्वे इत्युक्तपूर्वत्वात् । तथा च द्रव्यगता गुणक्रियाः पर्यायेष्वप्यनुगता एवेति न नाम किञ्चिदपि द्रव्यं सर्वथा नवोत्पन्नं न वा कदाचिदपि गुणादिहीनमतो नाव्याप्तिव्याप्तिरिति ॥ .. द्रव्यस्य अन्यान्यपि लक्षणानि महामहोपाध्यायैथितानीथम्-'गुणाश्रयो । द्रव्यं वा' । गुण-पर्याययोरैक्यं गुणप्राधान्यं वाऽऽश्रित्येदम् । यद्वा द्रवति ।