________________
६. सर्वज्ञैः केवलज्ञानचक्षुषा दृष्टा देशिताश्च, अत एव यथावस्थिता भावाः सम्य. ग्भावास्तेषां प्ररूपको गुरुः । यद्वा जैनतर्कप्सङ्ग्रहस्य प्रस्तुतत्वाद् भावा अपि जैना एव, ते च जिनभगवत्प्ररूपितत्वेन समीचीना एव ज्ञेयाः, ततश्च भावानां सम्यग्-उत्सूत्रणविपरीतसूत्रणादिविसंवादादिदोषरहितं यथा स्यात् तथा प्ररूपको गुरुः । पञ्चेति । सोऽपि प्राणातिपातविरमण-मूषावादविरमण-अदत्तादानविरमण-मैथुनविरमण-परिग्रहविरमणरूपमहाव्रतपञ्चकधारी सः । अत्र पञ्चमहाव्रतधारित्वं गुरोर्लक्षणम्, सम्यग्भावग्ररूपकत्वं तु स्वरूपाख्यानमिति ध्येयम् ॥
ननु सम्यग्भावप्ररूपक इत्यत्र भावाः के ? इत्यत्राह- ... द्रव्यगुणपर्याया भावाः ॥४॥ ..
द्रव्याणि गुणाः पर्यायाश्च भावाः पदार्था इंति यावत् । समग्रं विश्वमेतद् भावत्रयात्मकमिति भावः । वस्तुतस्तु द्रव्यपर्यायावेव भावौ, गुणस्य पर्यायविशेषरूपत्वादिति ध्येयम् । गुणपर्याययोश्च द्रव्येण सह भेदाभेदः सम्बन्धः । न तु समवायादिरेकान्तः, तस्य द्रव्यपर्यायाणामेकान्तपार्थक्ये सत्येव सम्भवात् । जैनास्तु द्रव्यपर्याययो कान्तेन भेदमभेदं वा स्वीकुर्वन्ति, किन्तु कथञ्चिद्भेदं कथञ्चिदभेदं च मन्यतेऽतो न समवायादिसम्बन्धस्तेषां नये स्वीकारार्होऽपि तु अविष्वग्भावलक्षणो भेदाभेदसम्बन्ध एव । द्रव्यपर्याययोर्भेदाभेदस्त्वित्थम्-मृत्ति काव्यात् प्रकटितस्य घटपर्यायस्य मृत्तिकाद्रव्याद् भेदः । भिन्नत्वे सत्येव तस्य 'घटः' इति व्यवहारस्य संघटमानत्वात् । अन्यथा-भेदाभावे घटोऽपि 'मृत्तिका' शब्देनैव व्यपदिश्येत ! । स च भेदः कथञ्चिदेव, न तु सर्वथा । सर्वथा भेदे सति 'मृण्मयो घट' इति 'मृद्धट' इति च व्यवहारो न स्यात् । न च स नास्त्यतो ज्ञायते यद् मृत्तिकानिर्मितस्य घटस्य मृत्तिकापर्यायत्वेन मृत्तिकया कथञ्चिदभेदोऽप्यस्ति । कथमन्यथा 'मृण्मयो घट' इतिवत् 'तन्तुमयो घट' इत्यादिना न व्यवहियते । एवं, 'कृष्णो घट' इति व्यवहारो द्रव्यगुणयोरभेददर्शकः । 'राजा पुरुष' इतिवत् । 'घटस्य कृष्णत्वं' इति व्यवहारश्च तयोर्भेदसूचकः । 'राज्ञः पुरुष' इतिवत् ॥