________________
.. ननु कोऽयं देवः, किंस्वरूपश्च, यो जगज्जन्तुभिः संसारतारकत्वेन स्तूयते ? इत्याशङ्कयाह
रागद्वेषाज्ञानविनिर्मुकोऽर्हन् देवः। स सकलभावसाक्षात्कारी तीर्थप्रणेता चतुस्त्रिंशदतिशयशाली ॥२॥ ___ रागेति । यस्य रागः, द्वेषः, अज्ञानं च सर्वथा नष्टाः, यश्च सुरासुरनरे न्द्रादिकृतां पूजा अर्हति स देव इत्यर्थः । उक्तं च भगवद्भिर्हरिभद्रसूरिभिः
यस्य संक्लेशजननो, रागो नास्त्येव सर्वथा ।
न च द्वेषोऽपि सत्त्वेषु शमेन्धनदवानलः ॥ .... न च मोहोऽपि सज्ज्ञान-च्छादनोऽशुद्धवृत्तकृत् ।
त्रिलोकख्यातमहिमा, महादेवः स उच्यते ॥ स च देवः करस्थिताऽमलजलबिन्दुवद्विश्वमशेषं साक्षात्कर्तुं विनैवेन्द्रियमनःसहायं समर्थ इत्याह-स सकलेति । जैननये सर्वेऽपि तीर्थङ्कराः स्वस्वधर्मतीर्थापेक्षया तीर्थप्रणेतारः, अत एव स्तुतावपि 'आईगराणं तित्थयराणं' इत्युक्तं, तदेवाहतीर्थेति । तीर्थ च द्वादशाङ्गीरूपं धर्मप्रवचनं चातुर्वर्ण्यः श्रमणसंधो वेति ध्येयम् । ईदृशे च देवेऽनेकेऽतिशयाः स्वयमेव प्रकटीभवन्ति, केचिद्बाह्याः पूजार्थं इन्द्रादिदेवैरपि निष्पायन्ते । ते चाऽतिशया मुख्याः चतुस्त्रिंशदित्याहचतुस्विंशदिति । अत्र च ‘रागद्वेषाज्ञानविनिर्मुक्त' इत्यनेन अपायापगमातिशयसूचनम् । ‘गतरागादिदोषस्य च वचनमवितथमेव भवतीति वचनातिशयोऽपि तेनैव संसूचितः । 'अर्हन्' इति पदेन पूजातिशयः, 'सकलभावे'त्यादिना च ज्ञानातिशयो वर्णितः । अत्र 'रागद्वेषाज्ञानविनिर्मुक्तत्त्रे सति अर्हत्त्वं देवस्य लक्षणं, शेषं तु तत्स्वरूपनिरूपणम् ॥ क्रमप्राप्तं गुरुतत्त्वं निरूपयितुमाहसम्यग्भावप्ररूपकः पञ्चर, हाव्रतधारी गुरुः ॥३॥ सम्यगिति । अभूवन्, भवन्ति, भविष्यन्ति चेति भावाः । समीचीनाः