________________
त्वात् । जैनानां तर्काणां सङ्ग्रहो जैनतर्कसङ्ग्रहः --तन्नामाऽयं ग्रन्थः तन्यते, मयेति शेषः । ननु किमर्थमेतत् तननं ? यतो जैनतर्कभाषाद्या बहवो ग्रन्था एतद्विषयकाः सन्तीति चेदाह-बालबोधायेति । सन्त्यपि ते ग्रन्थाः विदुषामेव प्रौढमतीनामेव वोपकारकाः, न तु बालमतीनामपि । ननु को नाम बालः, किं. पञ्चवर्षीयादिः ? ननु स कथमेनं पठिष्यति ? । उच्यतेऽत्र, बालो नाम न पञ्चवर्षीयादिः, अपि तु पठितेतरशास्त्रसार्थोऽप्यपठिततर्कशास्त्रः । तादृशस्तु यः कोऽपि सम्भवेत्, तस्योपकारायाऽलमयं सङ्ग्रहो भविष्यतीति बुद्ध्या मयाऽत्र तर्काः संगृह्यन्ते, न तु नवा. रच्यन्त इत्याशयः ॥
इह हि जगति भव्यत्वपरिणामिनो जीवा यं कश्चित् पुरुषार्थमर्थयमाना अप्यन्ततोगत्वा मोक्षमेवाभिलषन्ति । स च न केवलज्ञानं विना शक्यलाभः । तदपि च कर्मोच्छेदे सत्येव भवितुमर्हति । कर्माच्छेदश्चाऽऽस्रवनिरोधरूपसंबराधीनः, तस्मिन् सत्येव कर्मणां नवायाः सन्ततेरवरोधात् । संवरश्च विरतस्यैव । विरतिकारणं च तत्त्वज्ञानं, 'ज्ञानस्य फलं विरति' रिति वचनात् । एवं च सति मुक्तेर्निदानं तत्त्वज्ञानमेवेति 'किं तत्त्वम् ?' इति जिज्ञासा जिज्ञासूनां स्वाभाविक्येवोद्भवत ति तां निवर्तयितुं प्राह -. ..
देवगुरुधर्मास्तत्वम् ॥१॥
देवेति । दीव्यते-स्तूयते संसारतारकत्वेन रूपेण जगजन्तुंभिर्यः स देवः । गुरुश्चाऽज्ञानान्धतमसनिमज्जनशोलानां रक्षको जीवानाम् । यदुक्तं
" 'गु' शब्दस्त्वन्धकारे स्याद्, 'रु' शब्दस्तनिरोधकः ।
अन्धकारविरोधित्वाद् 'गुरु' रित्यभिधीयते ॥” इति । .: दुर्गतौ पततां प्राणिनां धारकश्च धर्मः। "दुर्गतिप्रपतत्प्राणि-धारणाद्धर्म उच्यते" इत्युक्तेः । देवगुर्वोर्लक्षणमनन्तरमेव कथ्यते, धर्मस्य तु परत इत्यवधेयम् । एते त्रयोऽपि. समुदिता एव 'तत्त्वं,' न तु पृथक् पृथक्-अन्योन्यनिरपेक्षा इति ज्ञापनार्थ तत्त्वस्य त्रैविध्येऽपि 'तत्त्वं' इत्येकवचनविलासः ॥