________________
ॐ ऐं नमः॥ श्री शङ्केश्वरपार्श्वनाथाय नमः ॥
नमो नमः श्रीगुरुनेमिसूरये ॥ आचार्य श्रीविजयनन्दनसूरि-विरचितः
श्री जैनतर्कसङ्ग्रहः ॥ मुनि शीलचन्द्रविजयकृतटिपण्यलकृतः ॥
___ (तत्र द्रव्यखण्डे प्रत्यक्षखण्डः) टिप्पणी :-प्रणम्य सद्गुरुं रम्यं, नेम्यभ्युदयनन्दनम् ।
___ करोमि टिप्पणी काञ्चित् , श्रीजैनतर्कसङ्ग्रहे ॥ अथातस्तत्त्वं जिज्ञासूनां जिज्ञासां परिपूरयितुकामो जैनसिद्धान्तमुक्तावल्यादि ग्रन्थरचनाऽवाप्तयशःकीय॑भिरामो ग्रन्थस्यास्य प्रणेता आचार्यश्रीविजयनन्दनसूरी रिरचयिषितजैनतर्कसङ्ग्रहग्रन्थव्यूहस्य निष्प्रत्यूहं समाप्तिकामः, 'थयथुइमंगलेणं जीवे नाणदसणचरित्तवोहिलाभं जणयइ' इत्यार्षवचनं मनसि निधाय च, देवगुरुनमस्कारात्मक ग्रन्थादौ मङ्गलमातनोति. मूलम्-श्रीनाभेयं नमस्कृत्य, नेमिमूरिं जगद्गुरुम् । ' . तन्यते बालबोधाय जैनोऽयं तर्कसङ्ग्रहः ॥१॥ ... टिप्पणी-श्रीनाभेयमिति । नाभिराजनन्दनं-युगादिजिनं-प्रथमं जैनतीर्थङ्करमिति यावत् । नेमिसूरिश्च ग्रन्थकर्तुः प्रगुरुः । स च निजनैष्ठिकब्रह्मचर्य -सत्त्वशुद्धि-चारित्रपवित्रता-अदृष्यवैदुष्यादिजनितपरमप्रभावानुभावतो जगतां गुरुरिव, तमपि नमस्कृत्येत्यर्थः । ननु किमर्थमयं प्रणामपरिश्रमः प्रारभ्यत इति चेदाह-तन्यत इति । तर्कसंग्रह इति । तय॑न्ते-प्रमितिविषयीक्रियन्त इति प्रसिद्धव्युत्पत्तिबलात् तर्काः-पदार्थाः । तेऽपि जैनाः-प्ररूपितत्वेन जैनतीर्थङ्करस्य सम्बन्धिनः, न तु नैयायिकादिदर्शनप्रसिद्धास्तेषां तु निराकरिष्यमाण