________________
- १०९ भेदे द्वीन्द्रियादिसूक्ष्मसङ्कल्पजननपरिणतद्रव्यविषयमपि मनःपर्यायज्ञानं स्यात् ; चेष्टाहेतोरेव मनसस्तद्ग्राह्यत्वात् । न च ज्ञानस्य पञ्चविधत्वोच्छेदादुत्सूत्रापत्तिः । भाषावन्नयविवेकेनोत्सूत्राभावादित्याहुः ॥४५॥
केवलज्ञानं निरूपयतिघातिकर्मक्षयोद्भूतं, सर्वभावप्रकाशकम् । केवलज्ञानमाख्यातं, सकलं सकलं सदा ॥४६॥
घातिकर्मेति । ज्ञानावरणदर्शनावरणमोहनीयान्तगयक्षय त् केवलज्ञानमुत्पद्यते । न च योगजधर्मानुगृहीतमनोजन्यमेवेदं; धर्मानुगृहीतेनापि मनसा पञ्चेन्द्रियार्थज्ञानस्य जनयितुमशक्यत्वात् । तत्त्वं च सर्वविषयत्वम् । तच्च सामान्यधर्माऽनवच्छिन्ननिखिलधर्मप्रकारकत्वे सति निखिलधर्मिविषयकत्वम् । इत्थं च प्रमेयवदिति ज्ञाने केवलदर्शने च नातिव्याप्तिः । अत्र केवलज्ञानं स्व
समानाधिकरणकेवलंदर्शनसमानकालीनं न वा ?; केवलज्ञानक्षणत्वं स्वसमा.नाधिकरणदर्शनक्षणाव्यवहितोत्तरत्वव्याप्यं न वा ? एवमाद्या क्रमोपयोगवादिनां युगंपदुपयोगवा दिनां यदेव केवलज्ञानं तदेव केवलदर्शन मिति वादिनां च साधारण्यो विप्रतिपत्तयः । एतच्च तत्त्वं ग्रन्थान्तरेभ्योऽवसेयम् ।।४६।।
केवलज्ञानवानेवास्माकमीश्वरो रागद्वेषाज्ञानविरहितत्वादित्याह - तद्वतो दोषमुक्तत्वा-दहत्त्वं प्रतिपादितम् । तस्माच्च तत्र नैवेष्टा, क्षित्यादीनां तु कर्तृता ॥४७॥
तद्वत इति । केवलज्ञानवतः । दोषा रागद्वेषमोहा: । अर्हत्त्वमष्टप्रातिहार्यादिपूजायोग्यतीर्थकरत्वमित्यर्थः । अस्यैव च प्रवचनं त्रिकालाऽबाधितमविच्छिन्नप्रभावशालि च । इत्थं च जगकर्तृतयाऽनादिशुद्धेश्वरसिद्धिनिररता । अनेकदःखमयस्य जगतः करणे तस्य प्रयोजनाभावात् । भावे वा रागादिमत्त्वप्रसङ्गादित्याह- तस्मादिति । रागादिदोषमुक्तत्वादित्यर्थः । ननु तथापि क्षित्यादिकं