________________
पारमार्थिकमिति । तत्त्वं चात्ममात्रजन्यत्वम् । तच्चोत्पत्ताविन्द्रियमनोनिरपेक्षत्वमेव । तेनाऽवध्यादेः क्षयोपशमभावापन्नकर्मयुद्गलजन्यत्वेऽपि न क्षतिः । तद् द्विविधं, विकलं सकलं च । तत्राद्यमवधिज्ञानं मनःपर्यायज्ञानं च ॥५२॥
तत्रावधिज्ञानं निरूपयतिविशिष्टावृतिविच्छेदा-दवधी रूपिगोचरः।
विशिष्टेति । अवधिज्ञानत्वं रूपित्वसमव्याप्यविषयताशालिज्ञानवृत्तिज्ञानवव्याप्यजातिमत्त्वम् । तादृशज्ञानं च परमावधिज्ञानम् । इदं चाऽवधिज्ञानावरणक्षयोपशमविशेषाद्भवति ॥
मनःपर्यायज्ञानं निरूपयतिमनःपर्यायकं ज्ञानं, हृदयमात्रगोचरम् ॥४३॥. .. अनेकदिनिधानानां, शुद्धसंयमशालिनाम् । ' आपुष्करार्द्धमाख्यातं, संज्ञिनां चित्तवेदकम् ॥४४॥
मन इति । मनोमात्रसाक्षात्कारि मनःपर्यायज्ञानम् । चिन्त्यमानाः स्तम्भकुम्भादयो बाह्यपदार्थास्तु मनोद्रव्याणां तथारूपपरिणामान्यंथानुपपत्तिप्रसूतानु मानत एवावगम्यन्ते । अथास्य स्वामिन आह-अनेकेति । इदं मनुष्यक्षेत्रवर्तिसर्वसंज्ञिनां मनोभाववेदकम् । आमर्पोषध्याद्यनेकर्द्धिमतामप्रमत्तसंयतानां मनःपर्यायज्ञानावरणक्षयोपशमादुत्पद्यते ॥४३-४ ४॥
अत्र नव्यमतमाह
आधिज्ञानमेवेद-माहुर्नव्या महाशयाः। सूत्रे भेदाभिधानं च, धर्मभेदाभिप्रायतः ॥४५॥
अधीति । नव्यास्तार्किकास्तु मनोद्रव्याकारग्राहकमिदमवधिविशेषएव । सूत्रे भेदाभिधानं च धर्मभेदाभिप्रायम् । अप्रमत्तसंयमविशेषजन्यतावच्छेदकजातेरवधित्वव्याप्यताया एव कल्पनात् । सङ्कल्पादिपरिणतद्रव्यमात्रग्राह्यभेदाद्