________________
فن و .
अथ प्रकारान्तरेण श्रुतं विभजतेश्रुतज्ञानं समाख्यातं, चतुर्दशविधं जिनैः । अक्षरं संज्ञि सम्यक् च, सादि सान्तं तथा गमि ॥४१॥ एवमङ्गप्रविष्टं च, प्रतिपक्षान्वितं मतम् । सांव्यवहारिकं प्रोक्तं, मयैवं च यथामति ॥४२॥
श्रुतेति । श्रुतज्ञानमक्षराऽनक्षरादिभेदेन चतुर्दशधा । तत्राक्षरं त्रिधा,संज्ञा-व्यञ्जन-लब्धिभेदात् । बहुविधलिपिभेदमाद्यं, भाष्यमाणमकारादि द्वितीय; एते चोपचाराच्छ्ने । लब्ध्यक्षरं स्थिन्द्रियमनोनिमित्तः श्रुतोपयोगस्तदावरणक्षयोपशमो वा । इदमेकेन्द्रियाणामपि, अव्यक्ताक्षरलाभात् । अनक्षरश्रुतमुच्छ्वसितादि, तस्यापि भावश्रुतहेतुत्वात् । समनस्कस्य संज्ञिश्रुतम् तद्विपरीतमसंज्ञिश्रुतम् । सम्यक्श्रुतमङ्गाऽनङ्गप्रविष्टं, लौकिकं तु मिथ्याश्रुतम् । स्वामित्वचिन्तायां तु भजना । सम्यग्दृष्टिगृहीतं मिथ्याश्रुतमपि सम्यग् , अवितथभावित्वादिना यथास्थानं तदर्थविनियोगात् । विपर्ययान्मिथ्यादृष्टिगृहीतं सभ्यगपि मिथ्या । एकपुरुषाद्याश्रित्य सादि, नानापुरुषाद्याश्रित्यानादि । एवं सान्तानन्तभेदावपि भाव्यौ। गमिक सदृशपाठं प्रायो दृष्टिवादगतम् । अगमिकमसदृशपाठं प्रायः कालिकश्रुतंगतम् । अङ्गप्रविष्टं गणधरकृतं, अनङ्गप्रविष्टं तु स्थविर कृतम् । अत्र मतिश्रुतयोविषयनियमः सर्वद्रव्येप्यसर्वपर्यायेषु । मतिज्ञानं साम्प्रतविषयं, श्रुतं त्रिकालविषयम् । यद्यपि मतिस्मृतिचिन्तारूपेण मतेरपि त्रिकालविषयत्वं, तथापि तद्भिन्नोपयोगावच्छेदेन; श्रुतं त्वेकोपयोगावच्छेदेन तदित्यदोष इत्येवं मतिश्रुतलक्षणं सप्रभेदं सांयवहारिकं प्रत्यक्षं निरूपितम् ॥४०-४१॥
अथ पारमार्थिकं तदाहपारमार्थिकमुत्पत्ता-यात्ममात्रसमाश्रितम् । विकलं सकलं चाद्य-मवधिर्मनआख्यकम् ॥४२॥