________________
१०६
तँच्च धारणात्मकपदपदार्थप्रतिसन्धानजन्यत्वम् । अत्रेहादिमतिज्ञानभेदस्य श्रुतंज्ञानस्य च साक्षरत्वाऽविशेषेऽप्ययं घट इत्यपायोत्तरमयं घटनामको नवेतिसंशयाऽदर्शनात् तत्तन्नाम्नोऽप्यपायेन ग्रहणात् । तद्धारणोपयोगे इदं पदमस्य वाचकं, अयमर्थ एतत्पदस्य वाच्य इति । पदार्थसम्बन्धग्रहणस्यापि धौव्येण तज्जनितश्रुतज्ञानस्यैव श्रुतानुसारित्वं न तु सविकल्पक ज्ञानसामग्री मात्रप्रयोज्यपदविषयताशालिन ईह।देः । अत एव धारणात्वेन श्रुतहेतुत्वात् मतिपूर्वं श्रुतमित्यनेन श्रुत्वा वच्छेदेन मतिपूर्वस्यविधिः । धारणादिरहितानामेकेन्द्रियादीनां त्वाहारादिसंज्ञान्यथानुपपत्यान्तर्जल्पाकार विवक्षितार्थवाचकशब्द संसृष्टार्थज्ञानरूपं श्रुतज्ञानं क्षयोपशममात्रजनितं जात्यन्तरमेव । अवग्रहेति । अत्रावग्रहात्मा मतिरुक्तैव ॥३८॥
नन्वीहायाः संशयरूपत्वात् त्रिविधैव मतिः प्रमाणमिति चेत आह
"
ईडा स्यात् संशयाद् भिन्ना, संशयोत्तरभाविनी । - क्रमश्चैव तथा हेतु - क्षयोपशमभावतः ॥ ३९॥
,
ईहेति । ईहा न संशयस्तदुत्तरभावित्वात् तस्यैकत्र धर्मिणि विरुद्ध नानार्थज्ञानरूपत्वात् । अस्याश्च निश्चयाभिमुखत्वेन विलक्षणत्वात् । अत्रावग्रहादयो मिथः कथञ्चिद्भेदेऽपि अपूर्वा पूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाच्च व्यतिरिष्यन्ते ।
;
मोsपि तथैव हेतुभावात् तथा क्षयोपशमाच्च । तथा हि- अवग्रहस्तदवान्तरधर्माकारेहायां तत्सामान्यज्ञानत्वेन; ईहा तद्धर्मप्रकारतानिरूपिततद्धर्मिनिष्टसाध्यत्वाख्यविषयतावदीहात्वेन तादृशसिद्धत्वाख्यविषयतावदपायत्वावच्छिन्ने धारणायां च समानप्रकारकानुभवत्वेन विशिष्टभेदे समानविषयका नुभवत्वेन वाऽपायो हेतुः । अत्रेदं बोध्यम् - मतिर्द्विविधा । तत्र स्वसमानाकारश्रुतज्ञानाहितवासनाप्रबोधसमानकालीन सति श्रुतोपयोगाभावकालीना श्रुतनिश्रिता आद्याऽवग्रहादिचतुर्भदा । उक्तवासनाप्रबोधाऽसमानकालीना चाऽश्रुतनिश्रिताद्वितीया । इयमध्यौत्पत्ति की वैनयिकी कार्मिकी पारिणामिकीति चतुर्विधेति ॥४०॥ -