________________
१०५
अथानिन्द्रियं निरूपयति
अनिन्द्रियं मनो द्वैधं द्रव्यभावप्रकारतः । एतद् द्वयं भवेद् द्वेधा, मतिश्रुतविकल्पतः ||३७||
अनिन्द्रियमिति । अनिन्द्रियं मनः । तद् द्विविधं द्रव्यमनो भावमनश्च । तत्र सर्वात्मप्रदेशवर्त्तिमनःपर्याप्तिकरणेन चित्तार्थं गृहीता मनोवर्गणास्कन्धा द्रव्यमनः । भावमनस्तु चित्तचेतना योगाध्यवसानादिरूपो जीवोपयोगः । एतेन मनोऽणु इति निरस्तम् । सर्वाङ्गीण सुखायुपपत्तये मनोवर्गण पुद्गलानां शरीरव्यापकत्वकल्पनात् । पौद्गलिकत्वादेव चास्य जातिस्मरणादिसमयेऽतिचिन्तातश्चित्तसङ्घट्टजमूर्च्छापि सङ्गच्छते । अथ त्वमनोयोगो ज्ञानसामान्ये कारणं, तथा च मनोऽणुत्व एव सुषुप्तौ पुरीतति वर्त्तमानेन तेन ज्ञानाऽजननं सङ्गच्छते । अन्यथा सुषुप्तिप्राक्कालोत्पन्नज्ञानव्यक्तस्तत्सम्बन्धेनात्मनश्च प्रत्यक्षत्वापत्तेः । तदतीन्द्रियत्वे च मानाभावादिति चेत् । न । रासनकाले त्वाचरासनोभयोत्पत्तिवारणस्येत्थमप्य• सम्भवात् । रासनादिसामग्र्याः स्पार्शनप्रतिबन्धकत्वकल्पने गौरवाच्च । ज्ञानसामान्य कारणमपि तत्क्षयोपशमादिरेव । इत्थं च चर्ममन:संयोगस्यापि तद्धेतुत्वमपास्तं विजातीयात्ममनः संयोगस्यैव हेतुत्वेनैव निरुक्तप्रत्यक्षवारणाच्च । युगपदकप्रत्ययानुत्पत्तौ तु स्वभाव एव कारणमित्यतोऽपि न तस्याणुत्वसिद्धिरिति । एवं निरूपितं सांव्यवहारिकमथ तन्मतिश्रुतात्मकमेवेति दर्शयति- एतद्द्वयमिति । इन्द्रियजमनिन्द्रियजमिति द्वयमपि मतिश्रुतभेदाद् द्विधा । इन्द्रियानिन्द्रियजत्वेन मतिश्रुतयोरेवान्तर्भवतीति भावः । एवमनुमानादीनामप्यत्रैवान्तर्भावो बोध्य इति ॥ ३७॥ अथ मतिश्रुतयोर्लक्षणमाह
स्याच्छ्रताननुसार्याध - मितरं चेतरं मतम् ।
अवग्रहादिका प्रोक्ता चतुर्थैव मतिर्यतः ||३८||
"
स्यादिति । मतिज्ञानत्वं श्रुताऽननुमारित्वे सतीन्द्रियजन्यमनोजन्यज्ञानान्यतरत्वम् । अवग्रह। दिक्रमवदुपयोगजन्यज्ञानत्वं वा । श्रुतानुसारित्वं श्रुतज्ञानत्वं,