________________
१०४
न्द्रियमिति । निर्वृत्तिरिति । तत्राद्यं द्विविधं, निवृत्तीन्द्रियमुपकरणेन्द्रियं च । तत्र निर्वृत्सिर्द्विधा, अनियताकाशशएकुल्यादिरूपा बाह्यनिर्वृत्तिः। खड्गस्थानीयायाश्चास्यास्तद्धारासमाना स्वच्छतरपुद्गलात्मिका प्रतिनियताकाराऽऽभ्यन्तरनिर्वृत्तिः । शुद्धात्मप्रदेशरूपेयमित्यप्येके । अस्याः शक्तिविशेषश्चोपकरणेन्द्रियम् । एतदपि नित्यपेक्षया द्विविधेत्यप्येके । लब्धिरिति । भावेन्द्रियं द्विधा, लब्धिरुपयोगश्च । तत्र लब्धिः प्रतिस्वमिन्द्रियावरणक्षयोपशमः उपयोगश्च स्पर्शादिग्रहणरूप आत्मव्यापारः । अत्र सत्यामेव लब्धौ निर्वृत्त्युपकरणोपयोगा भवन्तीति ॥३४॥३५॥
अथैतद्विषयमाहस्पर्शरसगन्धवर्ण-शब्दा अनुक्रमादिमे ।
एतेषां विषया ज्ञेया वक्ष्यन्तेऽधश्चं तद्विधाः ॥३६॥ . स्पर्शेति । स्पर्शादयो यथासंख्यं स्पर्शनेन्द्रियादीनां विषयाः । स्पर्शादिमैदाश्चाने वक्ष्यन्ते । नन्वेवं न कस्यापि गोचरो द्रव्यम् ? । मैवम् । स्पर्शादीनां द्रव्यपर्यायत्वेन पर्यायग्रहणे द्रव्यग्रहणावश्यकत्वात् । एतेन चक्षुस्त्वगूमनांसि द्रव्यग्राहकाणि नेतराणीन्द्रियाणी यपास्तम् । शर्करास्वादे''इयं शर्करे'ति रासनादिद्रव्यसाक्षात्कारस्याप्यनुभवसिद्धत्वात् , तस्य भ्रान्तत्वकल्पनेऽन्यत्राप्यनाश्वासात् । रसादिना द्रव्यानुमानं तु रूपादिना द्रव्यानुमानतुल्ययोगक्षेमम् । समं द्रव्यग्राह. कप्रत्यासत्यकल्पनलाघवमपि । प्रत्यासत्तयश्चास्माकं बद्धस्पृष्टताऽऽभिमुख्यस्पृष्टता च एव ताश्च द्रव्यद्वारैव पर्यायेष्वित्युभयग्रहणं युक्तमेवेति । तत्र स्पर्शरसगन्धेषु बद्ध पृष्टना प्रत्यासत्तिः, रूपे आभिमुख्य, शब्दे स्पृष्टता । तत्र बद्धस्पृष्टं नवशरावे तोयवद् आत्मप्रदेशैरात्मीकृतं, अभिभुखं योग्यदेशावस्थितं, स्पृष्टं तनौ रेणुकदालिङ्गितम् । अत्र पञ्चन्द्रियाणि प्राप्यकारीणि । तत्र चक्षुषो विषयदेशगमनमित्याक्षपादाः । श्रोत्रस्यापि विषयदेशगमनमिति वेदान्तिनः । श्रोत्रमप्राप्यकारीति तु सौगताः । स्पर्शनरसनघ्राणश्रोत्राण्येव प्राप्यकारीणीति तु तत्त्वम् ॥३६॥