________________
१०३
सांव्यवहारिकेति । तद् द्विभेदं, सांव्यवहारिक पारमार्थिकं च । ननुं किमिदं सांव्यवहारिकत्वम् ? व्यवहारनयाभिमतत्वं चेत् , अवध्याद वतिप्रसङ्गः, स्पष्टत्वेन तद्व्यवहारात् । नाप्यपारमार्थिकत्वं, कात्स्न्यन स्पष्टत्वाभावरूपस्य तस्य विकलप्रत्यक्षेऽपि सत्त्वादिति चेन्न, इन्द्रियजन्यस्य सांव्यवहारिकत्वेनाऽवधिमनःपर्याययोस्तु विकलप्रत्यक्षत्वेन परिभाषणात् । एतच्च द्विविधं, इन्द्रियजमनिन्द्रियजं च । आयं चक्षुरादिजम् । अत्र मनसो व्यापारेऽपीन्द्रियस्यैवासाधारणकारणत्वम् । परं मनोजन्मेति ॥३२॥
अथेन्द्रियानिन्द्रिये निरूपयतिइन्द्रियमिन्द्रलिङ्गं स्या-दिन्द्रदृष्टं तथैव च । इन्द्रसृष्टमिन्द्रजुष्ट-मिन्द्रश्चात्मा प्रकीर्तितः ॥३३॥
इन्द्रियमिति । इन्दनात्-सर्वद्रव्येष्वैश्वर्ययोगाद् विषयेषु वा परमैश्वर्ययोगाद् इन्द्रो जीवः । तस्य लिङ्गं चिह्नमिन्द्रियम् । तत्पर्यायानाह-इन्द्रदृष्टमित्यादि । तत्र दृष्टं जीवेनोपलब्धिं ग्राहितं, सृष्टमुपलम्भहेतुतया परिणामितं, जुष्टं शब्दादीनां व्यञ्जकहेतुत्वादासेदितं, एवमिन्द्रदिष्टमित्यपि जीवेन प्रवर्तितमित्यर्थः ॥३३॥
तभेदानाहतच्चोक्तं पञ्चधा स्पर्श-जिहाघाणाक्षिकर्णतः । द्विधा तद् द्रव्यभावाभ्यां, ते द्वे एवं द्विधा मते ॥३४॥ निर्वृत्तिरुपकरणं, द्रव्यतस्तत्र भाव्यताम् । लब्धिश्चाथोपयोगश्च, भावतः परिभावितम् ॥३५॥
तदिति । इन्द्रियं स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च, न तु वाक्पाणिपादपायूपस्थान्यपि, एवं सति भ्रक्षेपस्तनादेरपि तत्त्वापत्तेः । द्विधा तदिति । तत् पञ्चविधमपीन्द्रियं द्विविधं, पुद्गलद्रव्यरूपं द्रव्येन्द्रियं आत्मपरिणतिरूपं च भावे.