________________
१०२
परिणमति, स एव परिणामो वृत्तिरित्युच्यते । तथा च घटादेस्तवृत्तेश्च बहिरेकत्र देशे- समवधानात्तदुभयावच्छिन्नं चैतन्यमेकमेव, उपाध्योरेकदेशस्थत्वस्योपधेयाभेदप्रयोजकत्वात् । इत्थं च घटावच्छिन्नचैतन्यतवृत्त्यवच्छिन्नचैतन्ययोरभेदाद् घटज्ञानस्य प्रत्यक्षत्वम् । एवं घटादेः स्वावच्छिन्नचैतन्येऽध्यस्ततया विषयचैतन्य सत्तैव घटसत्ता, अधिष्टानसत्तातिरिक्ताया आरोपितसत्ताया अनङ्गीकारात् । विषयचैतन्यं चोक्तरीत्या प्रमातृचैतन्यमेवेति घटायधिष्ठानतया प्रमातृसत्तैव घंटादिसत्ता, नान्येति सिद्धं घटादेरप्यपरोक्षत्वमिति ॥ सम्भवैतिह्ये अपीति पौराणिकाः। तत्र प्रचुरसाहचर्यसंवेदनादबाधिता बुद्धिः सम्भवः । यथा सम्भवति मेघे जलमितिः। सन्दिग्धाप्तोक्तप्रवाहपारम्पयमैतिह्यम् । यथा वेदः प्रमाणमिति । चेष्ठापीत्यन्ये ॥
* तदेतत् सर्वमयुक्तमिति सूचयितुमाह-तच्च द्विधेति । प्रमाणं द्विविधं, प्रत्यक्षं प्ररोक्ष च । तत्राक्षमिन्द्रियं जीवं वा प्रति गतं-क्रार्यत्वेनाश्रितं प्रत्यक्षम् । अक्षेभ्योऽक्षाद्वा परतो वर्तत इति परोक्षम् । लक्षणमाह-स्पष्टमिति । अत्र प्रत्यक्षत्वं नेन्द्रियजन्यज्ञानत्वं, ज्ञानमात्रस्य मनोरूपेन्द्रियजन्यत्वात् : इन्द्रियत्वस्य प्रत्यक्षघटितत्वेन तेन रूपेणाऽहेतुत्वात् । नापि ज्ञानाऽकरणकज्ञानत्वं, निदिध्यासनद्वारा मननजन्ये तत्त्वज्ञानेऽव्याप्तेः । किन्तु स्पष्टता तल्लक्षणम् । सा चानुमानाद्याधिक्येन विशेषप्रकाशनम् , साक्षात्कारितेति यावत् । अत्र ज्ञानावरणक्षयोपशमजन्यतावच्छेदकत्वेन तत्क्षयजन्यतावच्छेदकत्वेन स्पष्टताद्वयसिद्धिः । लक्षणं तु स्पष्टतावेनानुगतीकृतैव । न चावग्रहे ऽव्याप्तिस्तत्रापि प्रतिनियतमनुष्यत्वाद्याकाराभिव्यअयस्पष्टताया निरपायत्वात् । वस्तुतस्तु प्रत्यक्षत्वमवध्यादावेव, सांव्यवहारिके त्यौपचारिकं तत् ; इन्द्रियादिव्यवहितात्मव्यापारजन्यत्वेन वस्तुतः परोक्षत्वात् । इत्थं चात्ममात्रजन्यत्वमेव तदिति ॥३१॥
. प्रत्यक्षं विभजते. सांव्यवहारिक-पारमार्थिकत्वेन तद् द्विधा ।
सांव्यवहारिकं तत्रे-न्द्रियाऽनिन्द्रियहेतुकम् ॥३२॥