________________
ब :
निश्चयोऽपि न प्रतिबन्धकः, तत्सत्त्वेऽपि त्वं बृहस्पतिरिति स्तावकवाक्यात् सन्तौषोपलब्धेः । वह्निना सिञ्चतीत्यपि वाक्यस्फोट एव तात्पर्यविषयाऽबाधरूपयोग्यतासत्त्वात्, अत्युष्णजलेन सिञ्चतीति तत्र तात्पर्यादिति वदन्ति । येन पदेन विना यत्पदस्याऽन्वयाऽननुभावकत्वं तेन सह तस्याकाङ्क्षा । यथा क्रियापदेन कारकपदस्य । वस्तुतो घटकर्मताबोधं प्रति घटपदोत्तर द्वितीया रूपाकाङ्क्षाज्ञानं कारणं, तेन घट: कर्मत्वमानयनं कृतिरित्यत्र न शाब्दबोधः । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ तात्पर्यग्रह | धीनोऽन्वयबोधः । जिज्ञासां प्रतियोग्यता आकाङ्क्षति तु तत्त्वम् । सा च स्मारिततदाक्षिप्तयोरविनाभावे सति श्रोतरि तदुत्पाद्य संसर्गावगमप्रागभावः । वक्तुरभिप्रायस्तात्पर्यम् । तज्ज्ञानादेव सैन्धवमानयेत्यत्र क्वचिदश्वस्य क्वचिल्लवणस्य च बोधः । न चात्र प्रकरणादीनां कारणत्वं, अननुगमात्; तात्पर्यज्ञानजनकत्वेनानुगमे च गौरवात् । इत्थं च वेदेऽपि तात्पर्यज्ञानार्थमीश्वरः कल्प्यते । न च तत्राध्यापकतात्पर्यज्ञानं हेतुः, सर्गादौ तदभावात् । संव। दिशुक्रवाक्यादावपीश्वरीयमेव तत् । अन्ये तु नानादो क्वचिदेवेदं कारणम् । वेदें तु मीमांसापरिशोधितन्यायादेवार्थोऽवधार्यते इति वदन्तीति ।
कपिलास्तु प्रत्यक्षानुमागमास्त्रय एव प्रमाणानीत्याहुः । अथार्थापत्तिरपीति प्राभाकराः । उपपाद्यज्ञानेनोपपादक कल्पनमर्थापत्तिः । सा द्विविधा, दृष्टार्थापत्तिः श्रुतार्थापत्तिश्च । यथा दिवा अभुञ्जानस्य प्रत्यक्षदृष्टेन पीनस्वेनानुपपथमानेन । त्रिभोजन कल्पना, यथा च शतवर्षजीविनी देवदत्तस्य श्रुतेन गृहासत्त्वेनानुपपद्यमानेन वहिस्सत्वकल्पना || अनुपलब्धिरपीति भाट्टवेदान्तिनी । तंत्र ज्ञानकरणाजन्याभावानुभवासाधारणं कारणमनुपलब्धिः । अत्र वेदान्तिमते प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्याभेदो ज्ञानगतप्रत्यक्षत्वं, प्रमातृसत्तातिरिक्तसत्ताकत्वाभावश्च विषयगतप्रत्यक्षत्वम् । अत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यं, 'अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यं, अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यम् । तत्र तैजसमन्तःकरणं चक्षुरादिद्वारा घटादिदेशं गत्वा तदाकारेण