________________
बोधात् । द्वन्द्वे धवखदिसै छिन्धीत्यादौ धवः खदिरश्च विभक्तयर्थद्वित्वप्रकारेण बुध्यते । न चैकक्रियान्वयित्वरूपसाहित्ये लक्षणा, क्रियाभेदेऽपि तदर्शनात् साहित्यस्याऽननुभवाच्च । अत एव लाघवाद् राजपुरोहितौ सायुज्यकामौ यजेयातामित्यत्र द्वन्द्व आश्रीयते । किन्तु वास्तवभेदे द्वन्द्वः, नीलघटयोरभेद इत्यादौ नीलपदस्य नीलत्वे घटपदस्य घटत्वे लक्षणा, अभेद इत्यस्य चाऽश्रयाऽभेद इत्य
र्थान्न दोषः । समाहारद्वन्द्वे तु अहिनकुलमित्यादौ परपदेऽहिनकुलसमाहारे लक्षणा, पूर्वपदं तात्पर्यग्राहकम् । भेरीमृदङ्गं वादयेत्यत्र तु स्वाश्रयवृत्तित्वसम्बन्धेन समाहारस्यान्वयः, एवं पञ्चमूलीत्यादावपि । परे त्वहिने कुलश्च बुध्यते, प्रत्येकमेकत्वान्वयः, समहारसंज्ञा च यत्रैकत्वं नपुंसकत्वं च प्राणितूर्येत्यादि सूत्रेणोक्तं तत्रैव, अन्यत्रैकवचनमसाध्विति वदन्ति । पितरौ श्वसुरावित्यादौ पितृपदे जनकदम्पत्योः, श्वसुरपदे स्त्रीजनकदम्पत्योर्लक्षणा । घटा इत्यादौ घटोपस्थितिसम्भवान्न लक्षणा । कर्मधारये नीलोत्पलमित्यादावभेदसम्बन्धेन नीलपदार्थ उत्पलपदार्थ प्रकारस्तत्र न लक्षणा । अत एव निषादस्थपति याजयेदित्यत्र कर्मधारय एव; श्रुतिबोधितयाजनानुपपत्त्यैव च तस्य शूद्रस्यापि यागोपयुक्ताध्ययनस्य कल्प्यत्वात् । उपकुम्भमपिप्पलीत्यादौ परपदे तत्सम्बन्धिनि लक्षणा, तथा च कुम्भसम्बन्ध्यभिन्नसमीपं पिप्पलीसम्बन्ध्यभिन्नमर्द्धमित्यन्वयबोध इति ।
अथात्रासत्तियोग्यताऽऽकाङ्क्षातात्पर्यज्ञानानि कारणानि । तत्रासत्तिर्यत्पदार्थेन सह यत्पदार्थस्यान्वयोऽपेक्षितस्तयोरव्यवधानेनोपस्थितिः । तेन गिरि(क्तं वहिमान् देवदत्तेनेत्यत्र न बोधः । नीलो घटो द्रव्यं पट इत्यत्र त्वासत्तिभ्रमेऽपि शाब्दप्रमा। एकपदार्थेऽपरपदार्थसम्बन्धो योग्यता। तज्ज्ञानाभावाच्च वह्निना सिञ्चतीत्वत्र न शाब्दबोधः । अपूर्ववाक्यार्थस्थले ऽपि सम्भवत्येव तत्तत्पदार्थस्मरणे सति संशयरूपं निश्चयरूपं वा योग्यताज्ञानम् । नव्यास्तु उक्तस्थाने सेके वह्निकरणकत्वाभावरूपाऽयोग्यतानिश्चयेन प्रतिबन्धान शाब्दबोधः; तदभावनिश्चयस्य लौकिकसन्निकर्षाऽजन्यदोषविशेषाऽजन्यतज्ज्ञानमात्रे प्रतिबन्धकृत्वात् । योग्यताज्ञानविलम्बाच्च शाब्दबोधविलम्बोऽसिद्ध इत्याहुः । शाब्दिकास्त्वयोग्यता