________________
यदि तद् विजातीयमेव तदा लक्षणयैव । यत्र यौगिकार्थरूढ्यर्थयोः स्वातन्त्र्येण बोचस्तद्यौगिकरूढम् उद्भिदादिपदम् । अत्र हि तरुगुल्मादिर्यागविशेषोऽपि वुध्यत इति ।
,
अथ लक्षणा । सा च शक्यसम्बन्धरूपा । तथा च ( 'गङ्गायां घोष' इत्यत्र ) प्रवाहरूपशत्र्यार्थसम्बन्धस्य तीरे गृहीतत्वात् तीरस्य स्मृतिः, ततः शाब्दबोधः । इयं च तात्पर्यानुपपत्तिप्रतिसन्धानाद् भवति । नान्वयानुपपत्तिलक्षणा बीजम् । तदा हि यष्टीः प्रवेशय इत्यादौ लक्षणा न स्याद्, यष्टिषु प्रवेशान्वयानुपपत्तेरभावात; तेन तत्प्रवेशे भोजन तात्पर्यानुपपत्त्या यष्टिधरेषु लक्षणा । एवं काकेभ्यो दधि रक्ष्यतां, छत्रिणो यान्तीत्यादावपि बोध्यम् । किञ्चैवं गङ्गापदस्य क्वचित्तीरे I क्वचिद् घोषपदस्य मत्स्यादौ लक्षणेति नियमो न स्यात् । अत्र शक्तिलक्षणाऽन्यतरसम्बन्धेनेतरपदार्थान्वित स्वराक्यार्थशाब्दबोधं प्रति पदानां सामर्थ्यात् लाक्षणिकानां शाब्दबोधे पदान्तरं कारणमिति केचित् । अत्र लक्षणा द्विधा, केवललक्षणा लक्षितलक्षणा च । गङ्गायां घोष इत्यत्राद्या, द्विरेफपदस्य भ्रमरेऽपरा । एवं विषं भुङ्क्ष्वेत्यत्र जहत्स्वार्था, यष्टी: प्रवेशयेत्यादावजहत्स्वार्था । तत्त्वमसीत्यादौ वेदान्तिनां जहदजहत्स्वार्थाऽपि । केचित्तु 'काकेभ्यो' इत्यत्रैवेयम् । एवं गौणीः शुद्धेत्यादयोऽपि भेदा अवगन्तव्याः । वाक्ये तु शक्तेरभावाल्लक्षणाऽपि नास्ति । गंभीरायां नद्यां घोष इत्यत्र नदीपदस्य नर्द तीरे लक्षणा, गर्भारपदार्थस्य व्युत्पत्तिवैचित्र्यान्नद्या सहाऽभेदान्वयः । एकदेशान्वयाऽस्वीकारे तु नदीपदस्य गभीरनदीतीरे लक्षणा, गभीरपदं तात्पर्यग्राहकम् । एवं समासेऽपि । तत्र बहु चित्रगुरित्यादौ गोपदस्य गोमति लक्षणा गवि चित्राऽभेदान्वयः यद्वा गोपदस्य चित्रगोमति लक्षणा, चित्रपदं तात्पर्य ग्राहकम्। एवमारूढवानरो वृक्ष इत्यत्र वानरपदस्य वानरारोहकर्मणि लक्षणा, आरूढपदं तात्पर्यग्राहकम्। तत्पुरुषे पूर्वपदें लक्षणा, राजपुरुष इत्यादौ निपातातिरक्तनामार्थयोर्भेदेनान्वयस्याव्युत्पन्नत्वाद् राजपदार्थन पुरुषपदार्थ दार्थस्य साक्षान्नान्वयस्तस्माद राजपदे राजसम्बन्धिनि लक्षणा, पुरुषेण सहाऽभेदान्वयः । न चात्र लुप्तविभक्तेः स्मरणं, अस्मृतविभक्तेरपि तत