________________
शक्तिग्रहः । व्यवहारादपि, यथा प्रयोजकवृद्धोक्तं घटमानयेति श्रुत्वा प्रयोज्य वृद्धेन घटानयने पार्श्वस्थो बालो 'घटानयनरूपं कार्य घटमानयेतिशब्दप्रयोज्य' मिति निश्चिनोति; पुनश्च घटं नय गामानयेतिवाक्यादावापोद्वापाभ्यां घटादिपदाना कार्यान्वितघटादौ शक्ति निश्चिनुते । न चैवं भूतले नीलो घट इत्यादिशब्दाच्छाब्दबोधो न स्यात्, कार्यताबोधकलिङ्गाधभावादिति वाच्यम् । आपाततः कार्यान्विते शक्त्यवधारणेऽपि लाघवेन पश्चात्तस्य परित्यागौचित्यात् । अत एवं 'चैत्र ! पुत्रस्ते जातः, कन्या ते गर्भिणी' त्यादौ मुखप्रसादमुखमालिन्याभ्यां सुखदुःखे अनुमाय तत्कारणत्वेन शाब्दबोधं निर्णीय रद्धेतुतया तं शब्दमवधारयति; तथा च व्यभिचारान्न कार्यान्विते शक्तिः, तत्र तं पश्येत्यंध्याहारे मानाभावात् , पुत्रस्ते जातो मृतश्चेत्यादौ तदभावाच्च; इत्थं च घटपदस्य लाघवाद् घटमात्रे शक्तिनत्वन्वितघटेऽपि । एवं वाक्यशेषादपि, यथा 'यवमयश्चरुर्भवती' त्यत्र यवपदस्यार्याणां दीर्घशूकविशेष प्रयोगः, कङ्गौ प्रयोगरतु शक्तिभ्रमात्; नानाशक्तिकल्पनं तु न, गौरवात् । हर्यादिपदे तु विनिगमकाभावात् तत्कल्पनम् । एवं विवरणादपि, तच्च तत्समानार्थकपदान्तरेण तदर्थकथनम् । यथा घटोऽस्तीत्यस्य कलशोऽस्तीत्यनेन विवरणाद् घटपदस्य कलशे शक्तिग्रहः । एवं प्रसिद्धपदस्य सान्निध्यादपि, यथेह सहकारे मधुरं पिको रौतीत्यत्र पिकशब्दस्य कोकिले शक्तिग्रहः ।
... शक्तं पदम् । तच्चतुर्धा । तथाहि-यत्रावयवार्थ एव बुध्यते तद्यौगिकं, पाचकादिपदम् । यत्र समुदायशक्तिमात्रेण बुध्यते तद् रूढं, गो-मण्डलादिपदम् । यत्रावयवशक्तिविषये समुदायशक्तिरप्यस्ति तद् योगरूढं, पङ्कजादिपदम् । तत्रावयवशक्त्या पङ्कजनिकर्तृत्वं समुदायशक्त्या च पद्मत्वं बुध्यते । रूढिज्ञानस्य केवलयौगिकार्थज्ञाने प्रतिबन्धकत्वेन न केवलावयवशक्त्या कुमुदे प्रयोगः । मणिकारस्तु समुदायशक्त्युपस्थितपोऽवयवार्थपङ्कजनिकर्तुरन्थयो भवति, सान्निध्यात् । यत्र रूढयर्थबाधप्रतिसन्धानं तत्र लक्षणया कुमुदादेर्बोधः; यत्र कुमुदत्वेन बोधे न तात्पर्यज्ञानं पद्मत्वस्य च बाधस्तत्र चाऽवयवशक्तिमात्रेण निर्वाहइत्याहुः । यत्र स्थलपमादाववयवार्थबाधस्तत्र समुदायशक्त्या पद्मत्वेन बोधः;