________________
प्रतीत्यनन्तरं 'अनेन सदृशी मदीया गौ' रिति निश्चय उपमितिरिति पूर्वोत्तरमीर्मासिनः।
अथ शाब्दबोधः । तत्र पदज्ञानं करणं; वृत्त्या पदजन्यपदार्थस्मरणं व्यापारः; वृत्तिश्च शक्तिलक्षणाऽन्यतरसम्बन्धः । तत्र पदेन सह पदार्थस्य साक्षात् सम्बन्धः शक्तिः । सा चाऽस्माच्छब्दादयमों . बोद्धव्य इतीश्वरेच्छात्मिका; आधुनिकनाम्न्यपि साऽस्त्येव । नव्यास्वाधुनिकसङ्केतितेऽपि शक्तिमामनन्ति, तेपामिच्छामात्रस्यैव शक्तित्वात् । शक्तिग्रहश्च व्याकरणादेर्भवति । तत्र धातुप्रकृतिप्रत्ययानां शक्तिग्रहो व्याकरणाद् भवति । क्वचित् सति बाधके त्यज्यते; यथा वैयाकरणैराख्यातस्य कर्तरि शक्तिरुच्यते, तत्र गौरवात् त्यज्यते; किन्तु कृतौ शक्तिलाघवात् । पचतीत्यस्य पाकं करोतीत्यनेन विवरणाच्च कृञो यत्नार्थत्वात् । रथो गच्छति जानातीत्यादावाश्रयत्वादौ नश्यतीत्यादौ प्रतियोगिल्वे निरूढलक्षणा । लटत्वेन हि शक्तिलकारत्वेन च लक्षणेति युगपवृत्तिद्वयाऽनभ्यु. पगमेऽपि न वर्तमानत्वादीनामनन्वयः । अथ कर्तुरनभिधाने चैत्रः पचतीत्यत्र तृतीया स्यादिति चेत् , न; अनभिहितसङ्ख्याके कतर ति तात्पर्यात् । आख्यातस्थले क्रियामुख्यविशेष्यकः शाब्दबोध इति शाब्दिकाः; यथा चैत्रो ग्रामं गच्छ. तीत्यत्र ग्रामाऽभिन्नाश्रयनिष्टसंयोगानुकूलश्चैत्राऽभिन्न कर्तृको वर्तमानकालवृत्ति
ापार इति बोधः । नैयायिकास्तु प्रथमान्तार्थमुख्यविशेष्यकः सः । उक्तस्थले ग्रामनिष्ठसंयोगानुकूलव्यापारानुकूलवर्तमानकृतिमांश्चैत्र इत्येव बोधः । न चैवं पश्य मृगो धावतीत्यत्र धावनस्य दर्शनकर्मत्वं न स्यादिति वाच्यम् । तत्र धावनकर्तृमृगकर्मकदर्शनाश्रयस्त्वमित्यन्वयबोधाद् वाक्यार्थस्यैव कर्मत्वात् नामाथवाभावान्न द्वितीया ।
उपमानाच्छक्तिग्रह उक्त एव । कोशादपि, यथा नीलादिपदानां नीलकपादौ नीलविशिष्टे च शक्तिः, तत्र लाघवान्नीलादावेव शक्तिविशिष्टे तु लक्षणा । आप्तवाक्यादपि, यथा कोकिलः पिकशब्दवाच्य इति शब्दात् पिकस्य कोकिले