________________
इत्थं च यत्र सिद्धिर्नास्ति तत्र सिषाधयिषायां सत्यामसत्यामपि पक्षता; यत्र सिषाधयिषाऽस्ति तत्र सिद्धौ सत्यामसत्यामपि पक्षता; यत्र सिद्धिरस्ति सिषाधयिषा च नास्ति, तत्र न पक्षता । अत्र पक्षतावच्छेदकावेतदवच्छेदेनानुमिति प्रति पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरेव प्रतिबन्धिका दकसामानाधिकरण्येनानुमितिं प्रति तु सिद्धमात्रं विरोधि । एवमनुमित्सा विरहविशिष्टसमानविषयकप्रत्यक्षसामग्री अनुमितौ पृथक्प्रतिबन्धिका । एवं प्रत्यक्षेच्छाविरहविशिष्टानुमितिसामग्री भिन्नविषयक प्रत्यक्षे प्रतिबन्धिकेति ।
अत्रानुमानं त्रिविधं, अन्वयव्यतिरेकि - केवलान्वयि -- केवलव्यतिरेकिभेदात् । आद्यं 'वह्निमान् धूमादिति, सपक्षविपक्षयोः सत्त्वात् । द्वितीयं 'घटोऽभिवेयः प्रमेयत्वादि'ति, विपक्षाऽभावात् । तृतीयं पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वादिति, सपक्षाऽभावात् । अत्र व्यतिरेकिणि व्यतिरेकव्याप्तिज्ञानं कारणं; साध्याभावव्यापकीभूताभावप्रतियोगित्वं व्यतिरेकव्याप्तिः । अत्र यत्सम्बधेन यदवच्छिन्नं प्रति येन सम्बन्धेन येन रूपेण व्यापकता गृह्यते तत्सम्बन्धावच्छिन्नप्रतियोगिताकतद्धर्मावच्छिन्नाऽभावज्ञानात् तत्सम्बन्धावच्छिन्नप्रतियोगिताक - तद्धर्भावच्छिन्नाभावस्य सिद्धिः । इत्थं च यत्र तादात्म्येनेतरव्यापकत्वं स्वरूप्रेण गन्धाभावस्य गृह्यते, तत्र स्वरूपेण गन्धाभावस्याभावात्तादात्म्येनेतर स्याऽभावः पृथिव्यां सिद्ध्यति, सं एवाऽन्योन्याभावः । एवं यत्र संयोगेन धूमं प्रति संयोगेन वह्नेर्व्यापकता गृह्यते तत्र सम्बन्धावच्छिन्नप्रतियोगिताकवहन्यभावेन जलहूदे संयोगसम्बन्धावच्छिन्नप्रतियोगिताकधूमाभावः सिद्धयति । व्यतिरेकव्याप्तिग्रहे च व्यतिरेक सहचारज्ञानं कारणम् । केचित्तु व्यतिरेक सहचारेणाप्यन्वयव्याप्तिरेव गृह्यते इति । एवं पूर्ववत् शेषवत्, सामान्यतो दृष्टमित्यादयोऽपि भेदा बोध्याः ।
संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः । यथा ' गवयो गवयपदवाच्य' इति ज्ञानम् । अत्र गोसादृश्यज्ञानं करणं, 'गोसदृशो गवयपदवाच्य' इत्यतिदेशवाक्यार्थस्मरणं व्यापारः, 'अयं गवयपदवाच्य' इत्युपमितिरिति । अयं पिण्डो गसदृश' इति