________________
९५
घटइति ज्ञानं तत्रेन्द्रियसम्बन्धं विनापि द्वितीयदिनेऽलौकिकप्रत्यक्षं, तादृशज्ञाने प्रक्रोरीभूतसामान्यस्य घटत्वस्य सत्त्वादिति ब्रुवते ।
ज्ञानलक्षणा प्रत्यासत्तिस्तु यद्विषयकं ज्ञानं तस्यैव । इत्थं च ' सुरभि चन्दन' मिति चाक्षुषे सौरभत्वस्य भानं धूमत्वेन धूलीपटले ज्ञातेऽनुव्यवसाये धूलीपटलस्य भानं च ज्ञानलक्षणया । एवं रज्ज्वादौ सर्पादिभ्रमे सर्पत्वादिभानमपि ज्ञानलक्षणया | योगजधर्मो युक्त- युञ्जानयोगिद्वैविध्याद् द्विविधः । तत्र योगाभ्यासवशीकृतमनस्संमाधिसमासादितविविधसिद्धिर्युक्तः, तस्य विनैव ध्यानं सदा सर्वप्रत्यक्षम् । युञ्जानो विषयव्यावृत्तमानसः, तस्य तु ध्यानसहकारेणैवेति ।
अथाऽनुमितिः । सा च परामर्शजन्यज्ञानरूपा, यद्वा व्याप्तिकरणज्ञानात्मिका । अत्र व्याप्तिज्ञानं करणं, न तु व्याप्यत्वेन ज्ञायमानं लिङ्ग; अनागतेन विनष्टेन च लिङ्गेनानुमित्यनुत्पादापत्तेः । नव्यास्त्वनुमिति प्रति मनस्त्वेनैव करण - त्वमाहुः हः । व्याप्तिश्च साध्यवदन्यावृत्तित्वं हेतुव्यापक साध्य सामानाधिकरण्यं वा । अत्र व्याप्तिग्रहे व्यभिचारज्ञानाभावः सहचारज्ञानं च कारणं; भूयोदर्शनमपि • क्वचिदुपयुज्यते । अत्र शङ्कानिवृत्तये एकधर्माभ्युपगमे द्वितीयस्य नियतप्राप्तिरूपस्तर्कोंऽप्यपेक्षितः । तथाहिं यथयं वह्निमान्न स्यात्तदा धूमवान्न स्यात्; कारणं विना कार्यानुपपत्तेः । यद्यत्र । प्याशङ्का तदा व्याघातात् साऽपसार्या ; शङ्काया व्याघातावधित्वात् । कारणं विनापि हि यदि कार्यं स्यात्तदा धूमाद्यर्थं वयादेर्नियमतउपादानं न स्यादिति । व्यापारश्च परामर्शः स च व्याप्तिविशिष्टस्य पक्षेण सह वैशिष्ट्या वगाहिज्ञानम् । तच्च पक्षे 'पक्षे व्याप्य' इति ज्ञानं 'पक्षी व्याप्यवानि'ति ज्ञानं वा । अनुमितिरपि 'पक्षे साध्यं' इति 'पक्ष: साध्यवानिति वा । द्विविधादपि तस्मात् 'पक्षः साध्यवानि' त्येवानुमेत्यन्ये । केचित्तु पक्षविशेष्यक परामर्शस्यैवानुमितिहेतुतेति । पक्षताऽप्यत्र हेतुः । सा च सिषाधयिषाविरहविशिष्ट - सिद्ध्यभावः, न तु सिद्धयभावमात्रं, सिद्धौ सत्यामपि सिषाधयिषासत्त्वेऽनुमितेभवात् । नापि साध्यसन्देहः ; विनापि तं घनगर्जितेन मेघानुमानात् । अनेन सिषाधयिषामात्रस्यापि पक्षतात्वमपास्तम्, विनापि तां तदनुमानात् ।
9