________________
त्वं च चक्षुःसंयोगे प्रवेश्यं, तेन पृथ्वीपरमाणौ न ले पृथिवीत्वादेनीलस्वादेश्च न चाक्षुषप्रसङ्गो न वा वायौ तत्स्पर्शादौ च सत्तायाश्चाक्षुषत्वम् । एवं त्वक्संयोगांशेऽपि त्वाचप्रत्यक्षकारणतावच्छेदककोटौ महत्त्वावच्छिन्नत्वमुद्भूतस्पर्शावच्छिन्नत्यं च देयमिति । अत्राऽभावप्रत्यक्षे प्रतियोग्युपलम्भाभावः कारणम् । तत्र योग्यताऽ. प्यपेक्षिता । सा च प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकत्वरूपा । यत्र ह्यालोकसंयोदिकं वर्त्तते तत्र 'यद्यत्र घटः स्यात्तर्हि उपलभ्येते' त्यापादयितुं शक्यते इति तत्र घटभावादेश्चाक्षुषप्रत्यक्षं भवति, न बन्धकारे । स्पार्शनं तु तत्रापि, तस्यालोकसंयोगं विनाप्यापादयितुं शक्यत्वात् । गुरुत्वादिकं यदयोग्यं तदभावस्तु न योग्यस्तस्यापादनाभावात् । एवं संसर्गाभावप्रत्यक्ष प्रति-. योगिनो योग्यता, अन्योन्याभावप्रत्यक्षेऽधिकरणयोग्यताऽपेक्षिता; अतः स्तम्भादौ पिशाचा दिभेदोऽपि चक्षुषा गृह्यत एव । पिशाचत्वं यदि स्तम्भवृत्ति स्यात्तर्हि . स्तम्भवृत्तितयोपलभ्येतेत्येवं चात्रापादनम् । इदं सर्व लौकिकप्रत्यक्षम् । अलौ. किकं त्वलौकिकसन्निकर्षजन्यम् । अलौकिकसन्निकर्षश्च त्रिविधः सामान्यलक्षणाज्ञानलक्षणा-योगजधर्मभेदात् । तत्र सामान्यमिन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतं बोध्यम् । यर्थन्द्रियसंयुक्तो धूमस्तद्विशेष्यकं धूम इति ज्ञानं तत्र धूमत्वं प्रकारस्तेन घूमत्वेन सन्निकर्षण निखिलतदाश्रयविषयमलौकिकं प्रत्यक्षं भवति । इत्थं च धूमभ्रमानन्तरमपि सकलघूमविषयकं ज्ञानं स्यात् । मानसस्थले तु ज्ञानप्रकारीभूतमित्येव वाच्यम् । इदं च सामान्यं क्वचिन्नित्यं धूमत्वादि क्वचिच्चानित्यं घटादि । येन सम्बन्धेन च तज्ज्ञायते तेन सम्बन्धेनाधिकरणानां प्रत्यासत्तिः । एतदनङ्गीकारे धूमो वह्निव्याप्यो नवेति संशयो न स्यात्; प्रत्यक्षधूमे वह्निसम्बन्धस्य गृहीतत्वादन्यधूमस्य चाऽनुपस्थितत्वात् । इत्थं च धूमत्वेन सकलधूमानां वह्नित्वेन सकलवहीनां चोपस्थितो कालान्तरीयदेशान्तरीयधूमे वह्निव्याप्यत्वसन्देहः सम्भवति । न चैवं प्रमेयत्वेन सकलप्रमेयज्ञाने साश्यं स्यात्; विशिष्य सकलपदार्थानामज्ञातत्वात् । नव्यास्तु सामान्यज्ञानमेव प्रत्यासत्तिर्न तु ज्ञायमानं सामान्यम अन्यथा तद्घटनाशानन्तरं तद्घटवतां स्मरणे सर्वेषां तद्घटवतामलौकिक प्रत्यक्ष न स्यात् , तदा तद्घटरूपसामान्याभावात् ; स्याच्च यत्रेन्द्रिय सम्बन्धविशेष्यक