________________
प्रयत्नानां तद्गतजातीनां तदभावस्य च मानसम् । आत्मैकत्वपरिमाणयोरपि मानसमिति तात्पर्यटीकाकृत् ।
अत्र घटचक्षुःसंयोगायनन्तरं घटत्वादिविशिष्टसविकल्पकज्ञानात् पूर्व घटघटत्वादीनां वैशिष्टयाऽनवगाह्येव ज्ञानं जायते, विशिष्टधियां विशेषणधियः कारणत्वात् । तदेव निर्विकल्पकं, तच्चातीन्द्रियमिति न प्रत्यक्ष; घटमहं जानामीति प्रत्ययात् । तत्र ह्यात्मनि ज्ञानं तत्र घटस्तत्र घटत्वं प्रकारीभूय भासते । विशिष्टवैशिष्टयज्ञाने च विशेषणतावच्छेद कप्रकारकं ज्ञानं कारणम् । निर्विकल्पे तु घटत्वादिकं न प्रकारः; घटत्वाद्यप्रकारकं घटादिविशिष्टज्ञानं तु जात्यखण्डोपाध्यतिरिक्तपदार्थज्ञानस्य किञ्चिद्धर्मप्रकारकत्वनियमान्न स्यादेवेति । अत्र प्रत्यक्षमात्रे महत्त्वं कारणं, कारणतावच्छेदकसम्बन्धश्चालोकसंयोगवत् । इन्द्रियं करणं; विषयेन्द्रियसन्निकर्षो व्यापारः। स च संयोगादिभेदेन षविधः । तत्र द्रव्यस्य प्रत्यक्षे संयोगः सन्निकर्षः । द्रव्यसमवेतगुणकर्मसामान्यानां प्रत्यक्षे संयुक्तसमवायः। द्रव्य समवेतसमवेत-गुणत्व-कर्मत्व-सत्तादीनां प्रत्यक्षे संयुक्तसमवेतसमवायः । शब्दस्य प्रत्यक्षे श्रोत्रावच्छिन्नसमवायः । शब्दसमवेतशब्दत्वकत्वादीनां प्रत्यक्षे श्रोत्रावच्छिन्नसमवेतसमवायः । अभावसमवाययोः प्रत्यक्षे विशेषणता। वैशेषिकमते समवायो न प्रत्यक्षः, सम्बन्धप्रत्यक्षे यावदाश्रय प्रत्यक्षस्य हेतुत्वादिति । अत्र. विशेषणताऽपि नानाविधा; तथाहि-भूतलादौ घटाद्यभावस्य प्रत्यक्षे संयुक्तविशेषणता सन्निकर्षः। सङ्ख्यादौ रूपाद्यभावस्य संयुक्तसमवेतविशेषणता। सङ्ख्यात्वादौ रूपाद्यभावस्य संयुक्तसमवेतसमवेतविशेषणता । शब्दाभावस्य श्रोत्रावच्छिन्नविशेषणता, कादौ खत्वाद्यभावस्य श्रोत्रावच्छिन्नसमवेतविशेषणता । एवं भूतलवृत्तिघटाभावादौ पटाभावादेः संयुक्तविशेषण विशेषणता। कत्वाद्यवच्छिन्नाभावे गत्वाभावादेः श्रोत्रावच्छिन्नविशेषणविशेषणता । एवमन्यत्रापि ! .. अत्रेदं बोध्यम्-यत्र घटस्य मध्य आलोकसंयोगश्चक्षुःसंयोगस्तु बहिस्तत्र घटतद्गुणादिप्रत्यक्षाभावाच्चाक्षुषप्रत्यक्षकारणतावच्छेदककोटौ चक्षुःसंयोगांशे आलोकसंयोगावच्छिन्नत्वं निवेश्यम् । एवमुद्भूतरूपावच्छिन्नत्वं महत्त्वावच्छिन्न.