________________
९२
संसर्गवन्तो योग्यतादिमत्पदोपस्थापितत्वात् ' । एवं ' गवय प्रत्यक्षानन्तरं गवयपदं गवयत्वप्रवृत्तिनिमित्तकम्, असति वृत्त्यन्तरे वृद्धैस्तत्र प्रयुज्यमानत्वात् ' यद्वा ' गवयपदं सप्रवृत्तिनिमित्तकं साधुपदत्वात् गोपदवदिति । उपमानमपीति नैयायिकैकदेशी ।
नैयायिकास्तु व्याप्तिज्ञानं विनाप्यनुभवसिद्ध एव शब्दादितो बोधः ; न हि सर्वत्र शब्दश्रवणे व्याप्तिज्ञानमस्तीत्यत्र प्रमाणम् । अन्यथा सर्वत्राऽनुमिति-. स्थले पदज्ञानकल्पनया शाब्दबोध एव किं न स्यात् । तथा प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति । प्रमा हि चतुर्विधा, प्रत्यक्षानुमित्युपमिति शाब्दबोधभेदादिति । तत्करणान्यपि चत्वारि । तत्रेन्द्रियजन्यं ज्ञानं प्रत्यक्षं, घ्राणजादिभेदात् तत् षोढा । तत्र घ्राणेन्द्रियेन गन्धस्य तद्वजातीनां तदभावस्य च प्राणजम् । रसनेन्द्रियेण रसस्य तद्वज्जातीनां तदभावस्य च रासनम् । श्रोत्रेण शब्दस्य तद्वज्जातीनां तदभावस्य च श्रावणम् । चक्षुरिन्द्रियेणोद्भूतरूप - तद्वद्द्रव्य-योंग्यवृत्तिसङ्ख्या - परिमिति -- पृथक्त्व - संयोग-विभाग- परत्वाऽ - परत्व - स्नेह - वेगद्रवत्व- क्रिया-जाति-समवायानां तदभावस्य च चाक्षुषम् । अत्रालोकसंयोगउद्भूतरूपं च कारणम् । तत्र द्रव्यस्य चाक्षुषप्रत्यक्षे समवायेन, द्रव्यसमवेतरूपादेः स्वाश्रयसमवायेन, द्रव्यसमवेतसमवेतरूपत्वादेः स्वाश्रयसमवेतसमवायेन कारणम् । स्पर्शनेन्द्रियेणोद्भूतरूप-तद्गतजातिभिन्नानां भावानां चक्षुर्योग्यानामुद्भूतस्पर्शस्य तद्वद्द्द्द्रव्यस्य तद्गतजातीनां तदभावस्य च स्वार्शनम् । प्रभा - तद्गुणादेस्तुन सार्शनं, तत्रोद्भूतस्पर्शस्यापि हेतुत्वात् । वल्लभीयमते गुरुत्वस्यापि, नव्यमते वायोरपि । यतश्चाक्षुषे रूपं, स्पार्शने स्पर्श एव कारणम् । बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे त्वात्माऽवृत्तिशब्दभिन्नविशेषगुणवत्त्वं प्रयोजकमिति । यत्तु प्राञ्चः बहिरिन्द्रियजन्यद्रव्यप्रत्यक्ष रूपं कारणं तेन वायोः प्रत्यक्ष नेति वदन्ति, तन्न; बायुं स्पृशामीति प्रतीतेर्बायोः प्रत्यक्षात् । प्रभावद्वायोरप्येकत्वादिकं गृह्यत एव । क्वचित् परिमाणाद्यग्रहस्तु दोषादेव । किं चैवं ग्रीष्मोष्मादेः स्पार्शनं न स्यात् तत्रोद्भूतरूपाऽभावादित्यलम् । मनइन्द्रियेण । त्मबुद्धि सुखदुःखेच्छाद्वेष
"