________________
रजतमिति ज्ञानम् । अयं प्रत्यक्षस्थले । परोक्षस्थलेऽपि हेत्वाभासादिजन्यज्ञानरूपो बोध्यः ॥२६-२७॥ संशयमाह
तत्संशयोऽनवस्थिता-ऽनेककोटयवलम्बि यत् । ज्ञान साधकबाधक-प्रमाणानुपलम्भतः ॥२८॥
यथा स्थाणुरयं किं वा, भवेद्वा पुरुषश्च किम् ॥ तदिति । साधकबाधकप्रमाणाभावादे कत्र धर्मिणि विरुद्धनानार्थावगाहि. ज्ञानं संशयः । यथा अयं स्थाणुर्वा पुरुषो वेति । अयं च प्रत्यक्षविषये । परोक्षविषये तु विपिनादौ शृङ्गमात्रदर्शनात् किमयं गौर्वा गवयो वेत्यादिरूपः ॥२८॥ अनध्यवसायमाह
अर्थाऽनध्यवसायस्य, स्वरूपं किश्चिदुच्यते ॥२९॥ स विद्वद्भिः समाख्यातः, किमित्यालोचमात्रकम् ।
ज्ञानं यत्तद्यथा गच्छ-सणस्पर्शस्य शेमुषी ॥३०॥ : अथेति। अस्पृष्टविशिष्टविशेष किमित्यालोचनमात्रमनध्यवसायः। यथा गछतस्तृणस्पर्शज्ञानम् । परोक्षविषयेऽप्ययं वनादावज्ञातगोः पुंसः सास्नामात्रदर्शनात् को नु खल्वत्र प्रदेशे प्राणी स्यादित्याद्यात्मको बोध्यः ॥२९-३०॥ ... अथ प्रमाणभेदानाह
तच्च द्विधाऽथाऽप्रत्यक्षं, परोक्षं तत्र चादिमम् ।
स्पष्टं तत्स्पष्टता तत्र, यद्विशेषप्रकाशनम् ॥३१॥ तच्चेति । अत्र प्रत्यक्षमेव प्रमाणमिति चार्वाकः । सम्भावनामात्रादेव लोकव्यवहारसिद्धेः । अनुमानमपीति कणाद-सुगतौ । शब्दोपमानयोरनुमानगतार्थता । तथा हि ‘गामानय, यजेते' त्यादीनि पदानि, तात्पर्यविषयस्मारितार्थसंसर्गज्ञानपूर्वकाणि, आकाक्षादिमत्पदकदम्बकत्वात् । यद्वा एते पदार्था मिथः