________________
तन्नैवं, यथा घट ' इति । अत्र दर्शनेऽतिव्याप्तिवारणाय ज्ञानपदम् । संशयादिषु तद्वारणाय व्यवसायिपदम् । परोक्षबुद्धयादिवादिनां बाह्यार्थापलापिनां च मत. निरासाय स्वपरेति स्वरूपविशेषणम् । बाह्यस्येव स्वस्यापि स्वेन प्रतिभातत्वमनुभवसिद्धं, मिहिरालोकवत्, घटमहामात्मना जानामीति प्रत्ययात् । न च ज्ञानं ज्ञाततागम्यं, तदभावेऽपि शशविषाणादिविकल्पोपपत्तेः । घटं जांनामीति फलाऽनाधारत्वेऽपि कारकव्यापारविषयत्वादेव कर्मत्वोपपत्तेः । एवं चाऽभिमताऽनभिमतवस्तुस्वीकारतिरस्कारक्षममात्मव्यापारमुपयोगेन्द्रियमेव प्रमाणम्, न तु लब्धीन्द्रियमेवार्थग्रहणशक्तिलक्षणम्, उपयोगात्मना करणेन लब्धेः . फले व्यवं धानात् । ज्ञानेन घटं जानामीति करणोल्लंखानुपपत्तेश्च । एतेन सन्निकर्षादेः प्रामाण्यमपास्तं, तस्याऽचेतनत्वात् स्तम्भादेरिव स्वार्थव्यवसितावसाधकत-. मत्वाच्च ॥२४॥ समारोपं निरूपयति
समारोपोऽतस्मिंस्तद-ध्यवसायोऽधिगम्यताम् ॥२५॥ समारोप इति । अतत्प्रकारे तत्प्रकारताज्ञानं समारोपः । प्रवृत्तिनिमित्तं स्वस्य यथार्थाऽपरिच्छेद कत्वमेव; तेनाऽनध्यवसायेऽपि समारोपत्वम् ।।२५।। तभेदानाह
विपर्ययः संशयोऽन-ध्यवसाय इति त्रिधा । अधिज्ञेयः स तत्राद्यो विपर्ययः प्रदर्श्यते ॥२६॥ विपरीतैककोटेः स्या-निष्टङ्कनं विपर्ययः।
भवेद्यथा शुक्तिकायां, रजताकारतामतिः ॥२७॥ विपर्यय इति । विपर्ययसंशयानध्यवसायभेदात् त्रिविधः समारोपः । तत्र विपर्ययमाह-विपरीतेति । तदभाववति तत्प्रकारकनिर्णयो · विपर्ययः । तदभावाऽप्रकारकतत्प्रकारकज्ञानं च निर्णयः । दृष्टान्तमाह- यथेति । शुक्ता विदं