________________
द्वितीयस्तत्र विज्ञेयः, षड्विकल्पसमन्वितः ।
आनुगामि-वर्द्धमाना-ऽवस्थितेतरभेदतः ॥२२॥ द्विधेति । अवधिज्ञानं द्विविधं, भवप्रत्ययजं क्षयोपशमनिमित्तं च । आद्य नारकदेवानाम् । अत्रापि मुख्य कारणं क्षयोपशम एव, परं तस्य क्षयोपशमस्य कारणं भव एवेति कारण कारणत्वादित्थम् । द्वितीयं षड्विधम् । तत्रोत्पत्तिक्षेत्रादन्यत्राप्यनुवर्तमानमानुगामिकम् ! उत्पत्तिक्षेत्र एव विषयावभासकमनानुगामिकम् । उत्पत्तिक्षेत्रात् क्रमेण विषयव्याप्तिमवगाहमानं वर्द्धमानम् । उत्पत्तिक्षेत्रापेक्षया क्रमेणाल्पीभवद्विषयं हीयमानम् । आकेवलप्राप्तेरामरणाद्वाऽवतिष्ठमानं देवादिजात्यन्तरस्थायि वाऽवस्थितम् । यद्धीयते वर्द्धते च, वर्द्धते हीयते च, प्रतिपतति चोत्पद्यते चेत्यनवस्थितम् । नावतिष्ठते हीदं क्वचिदेक स्मिन् वस्तुनि, शुभाशुभानेकसंयमस्थानलाभात् ॥ २१-२२ ॥
मनःपर्यायकं नाम ज्ञानं द्विविधमिष्यते ।
ऋजुमतिविपुलधीः, केवलं केवलं मतम् ॥२३॥ मन इति । मन:पर्यायज्ञानं द्विविधं, ऋजुमतिमनःपर्यायज्ञानं विपुलमतिमनःपर्यायज्ञानं च । विशुद्धयप्रतिपाताभ्यां च प्रथमात् परस्य विशेषः । केवलं
ज्ञानस्वरूपम् । लक्षणान्येषां वक्ष्यत इति ॥ २३ ॥ .... प्रमाणं निरूपयति
प्रमाणं च तदेव स्यात् , स्वपरव्यवसायकम् । व्यवसायस्वभावं तत् पण्डितैः परिकीर्तितम् ॥२४॥
यतस्तस्यास्ति प्रामाण्यं समारोपविरोधिता । प्रमाणमिति । तदिति । पञ्चविधं ज्ञानम् । लक्षण माह-स्वपरेति । स्वपरव्यवसायिज्ञानं प्रमाणमित्यर्थः । विशेषणं समर्थयति-व्यवसायेति । तथाहि'प्रमाणत्वेनाभिमतं ज्ञानं, व्यवसायस्वभावं; समारोपपरि पान्थत्वाद, यन्नैवं