________________
कस्यापि शङ्खादिशब्दस्य स्निग्धत्वादिबहुधर्मान्वितत्वेनाप्याकलनात् । परस्त्वबहुविधं, स्निग्धत्वादिस्वल्पधर्मान्वितत्वेनाकलनात् । अन्यस्तु क्षिप्रं, शीघ्रमेव परिच्छेदात् । इतरस्त्वक्षिप्रं, चिरविमर्शेनाकलनात् । परस्त्वनिश्रितं, लिङ्गं विना. एव परिच्छेदात् । अपरस्तु निश्रितं लिङ्गनिश्रयाऽऽकलनात् । कश्चित्तु निश्चितं विरुद्धधर्माऽनालिङ्गितत्वेना ऽवगतेः । इतरत्वनिश्चितं, विरुद्धधर्माङ्किततयाऽवगमात् । अन्यो ध्रुवं, सतीन्द्रियोपयोगविषयादौ स्पष्टं विषयमवगृह्णात्येवेति । अन्यस्त्वध्रुवं, सत्यपि तस्मिन् कदाचित् तं तथा गृह्णाति कदाचिन्नेति भावः । . . .. नवीहादय एवंविधाः सन्तु, परमवग्रहः कथमेवंविधस्तस्यैकसामयिकत्वादिति चेत् । सत्यम् । नैश्चयिकोऽवग्रह एकसामयिक एव । व्यावहारिकं चाऽवग्रहमाश्रित्येदमुच्यते । नैश्चयिकः सामान्यमात्रग्राही, परश्च विशेषविषय इति ॥ १६-१७-१८-१९ ॥ श्रुतं विभजते'मतिपूर्व श्रुतं द्वैध-मङ्गबाह्यप्रविष्टकम् । अनेकभेदं तत्राद्य, ज्ञेयं सामायिकांदिकम् ॥२०॥
अङ्गप्रविष्टमाचारा-ङ्गादि द्वादशधा मतम् । मतिपूर्वमिति । मतिज्ञानं हि लब्धिरूपं श्रुतस्योत्पत्तावपेक्षाकारणमिति । तद् द्विविधमङ्गबाह्यमङ्गप्रविष्टं च । इदं अङ्गोपाङ्गादिपरिज्ञानमेव श्रुतज्ञानमन्यच्च मतिज्ञानम् ; शब्दसंसृष्टार्थमात्रग्राहित्वेन श्रुतत्वे त्ववग्रहमात्रमेव मतिज्ञानं प्रसज्येतेत्यभिप्रायेण । तत्राद्यं गणधरानन्तर्यादिभिराचार्यैः कालादिदोषादल्पशक्तीनां शिष्याणामनुग्रहायोक्तं सामायिकाध्ययनादि दशवैकालिकादि च सर्वम् । द्वितीयं यत्सर्वज्ञैरहनिरुक्तं तच्छिप्यैरतिशयवद्भिर्गणधरैर्दृब्धं तद।चाराङ्गादिदृष्टिवावादपर्यन्तम् ॥ २० ॥
अवधिं विभजते- द्विधाऽवधिर्भवहेतुः, क्षयोपशमहेतुकः ॥२१॥