________________
भेदाच्चतुर्धा । नयनमनसोरप्राप्यकारित्वं स्वरूपम् । नामजातिक्रियागुणद्रव्यकल्पनारहितं सामान्यग्रहणमर्थावग्रहः ; एकसामयिकः । यतः 'किश्चिद् दृष्टं मया न तु परिभावित 'मिति व्यवहारः । व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटनप्रवृत्तों बोध हा आन्तमौर्त्तिक । यथा श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन भवि - तयम् मधुरत्वादिधर्मयुक्तत्वाच्छाङ्खादिना वेति । ईहितस्य विशेष निर्णयोऽवायः, आन्तमहर्त्तिकः यथा शब्द एवायं शाङ्ख एवायमिति वा । 'अत्र घट' इत्याथपायोत्तरमपि यदा किमयं घटः सौवर्णो वा मार्त्तो वेत्यादिजिज्ञासा स्यात्, तदा पाश्चात्यापायस्योत्तरविशेषावगमापेक्षया सामान्यालम्बनत्वाद् व्यावहारिकावग्रहस्वम्, ततः सौवर्ण एवाऽयमित्यादिरपायः, एवमुत्तरत्रापि । जिज्ञासानिवृत्तौ त्वन्यविशेषज्ञानमवाय एव । अयमेव दृढतमावस्थापन्नो धारणा । सा त्रिविधा, अविच्युतिः स्मृतिर्वासना च । तत्रैकार्थोपयोग सातव्याऽनिवृत्तिरविभ्युतिरान्तमहर्त्तिकी । तस्यैवाऽर्थोपयोगस्य कालान्तरे 'तदेवे' युल्लेखेन समुन्मीलनं स्मृतिरान्तमोईर्त्तिकी । अपायाहितः स्मृतिहेतुः संस्कारो वासना सङ्घयेयाऽसङ्घयेयकालिकी । स्पष्टस्पष्टतरस्पष्टतमभिन्नधर्मक वासनाजनकत्वेनाऽन्यान्यवस्तुग्राहित्वादविच्युतेः; प्रा. गननुभूतवत्वे कल्वग्रा हिल्वाच्च स्मृतेः अगृहीतप्राहित्वात् स्मृतिज्ञानावरणकर्मक्षयोपशमरूपायास्तद्विज्ञानजननशक्तिरूपायाश्च वासनायाः स्वयमज्ञानरूपत्वेऽपि कारणे कार्योपचारेण ज्ञानभेदाभिधानम् । इत्थं चाप्रामाण्यशङ्काऽप्यपास्ता । अर्थावग्रहादयश्च मनइन्द्रियैः षोढा । तदेवमष्टाविंशतिर्मतिभेदाः ।
1
तें च बहु-बहुविध - क्षिप्राऽनिश्रित - निश्चित - धुवैः सप्रतिपक्षैर्द्वादशभिर्भेदैर्भिधमानाः षट्त्रिंशदधिकानि त्रीणि शतानि भवन्ति । बह्नवग्रहोऽबढवग्रह इत्यादि । एवमहादयोऽपि ज्ञेयाः । बह्वादयश्च भेदा विषयापेक्षाः । तथा हि-कश्चिन्नानाशब्दसमूहमाकर्णितं बहु जानाति एतावन्तोऽत्र शङ्खशब्दा एतावन्तश्च पटहादिशब्दा इति पृथग् भिन्नजातीयं क्षयोपशमविशेषादवगृह्णाति तत्तच्छन्दाकारतानिरूपितेदमाकारताकः शब्दीयो बह्नवग्रह इति यावत् । अन्यस्स्वल्पक्षयोपशमस्वात् तत्समानदेशोऽप्यबहुम् । अपरस्तु क्षयोपशमवैचित्र्याद बहुविधं, एकै