________________
तानेव भेदानाहमतिश्रुतावधिमनः-पर्यवकेवलानि हि । मत्यज्ञानं श्रुताज्ञानं, विभङ्गज्ञानमेव च ॥१४॥ इत्यष्टधा चतुर्धा च, श्रूयतामत्र कथ्यते । चक्षुरचक्षुरवधि-केवलदर्शनं तथा ॥१५॥
मतीति । मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यायज्ञानं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं चेत्यष्टधा । सम्यवत्वानुगतत्वेन ज्ञानस्य ज्ञानत्वमन्यथा त्वज्ञानत्व- मिति । चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं चेति चतुर्धा । तत्र चक्षुषा
दर्शनं चक्षुर्दर्शनं, चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनम् । रूपिद्रव्यसामान्यग्रहणमवधिदर्शनम् । सकलपदार्थसामान्यग्रहणं केवलदर्शनमिति ॥१४-१५॥
मतिज्ञानं विभजतेमतिश्चतुर्विधोक्ताव-ग्रहेहापायधारणाः। तत्र चावग्रहो द्वैध, व्यञ्जनार्थप्रभेदतः ॥१६॥ ईहाप्रभृतयस्तु स्यु-द्यर्थस्यैवाद्यवग्रहः । स्पर्शजिहाघाणकर्ण-प्रभेदेन चतुर्विधः ॥१७॥ . चक्षुर्मनोविधाधिक्यात्, पोढाऽर्थावग्रहादयः। . द्वादशधा पुनः सर्वे, प्रत्येकं परिकीर्तिताः ॥१८॥ बहु-बहु विध-क्षिप्रा-निश्रित-निश्चित-ध्रुवाः । सेतरा इति षट्त्रिंशत्, त्रिशतप्रभिदा मतिः ॥१९॥
मतिश्चतुर्विधेति । मतिज्ञानमवग्रहेहापायधारणाभेदाच्चतुर्विधम् । अवकृष्टो ग्रहोऽवग्रहः । स द्विविधो व्यञ्जनस्याऽर्थस्य च । ईहादयस्त्वर्थस्यैव । तत्र शब्दाविपरिणतव्यनिकुरम्बेण श्रोत्रेन्द्रियादेः सम्बन्धो व्यञ्जनावग्रह आन्तमॊहर्तिकः । अत्राऽस्त्येवाऽव्यक्ता ज्ञानमात्रा सुप्तमत्तादिपुरुषवत् । अयं च नयनमनोवर्जेन्द्रिय