________________
भेदस्तात्त्विको दर्पणस्येव निःश्वासाभिहतस्य मलिनिमा । एतदुभयायत्तः 'कर्तव्य मिति व्यापारावेशः । इत्यंशत्रयवती बुद्धिस्तत्परिणामेन ज्ञानेन यः पुरुषोपरागस्याऽतात्त्विकस्य सम्बन्धो दर्पणस्य मलिनिम्नेव मुखस्य सोपलब्धिः । धर्मादयोऽप्यष्टौ धर्मा बुद्धेरेव, कृतिसामानाधिकरण्येन प्रतीतेः । न च बुद्धिश्चेतना, परिणामित्वात् । बुद्धेः परिणामोऽहङ्कारस्तस्य पञ्चतन्मात्राणि एकादशेन्द्रियाणि च, तन्मात्राणां च पञ्चमहाभूतानीति मतं परास्तम् ।
कृतिचैतन्ययोहि सामानाधिकरण्येनानुभवात् कतैव चेतनस्तद्भिन्ने माना-: भावात् । चैतन्यांशे भ्रमे कृत्यंशेऽपि स स्यात् । अचेतनकार्यत्वाद् बुद्धेरचैतन्यं, कार्यकारणयोस्तादात्म्यादिति चेत्, न, असिद्धेः, कर्तुर्जन्यत्वे मानाभावात् । प्रत्युत सरागजन्मदर्शनादनादितैव स्यात् । "प्रकृतेः क्रियमाणानी"त्यादि तुर स्वतन्त्रकर्तृत्वाभावपरम् । किञ्च बुद्धनित्यत्वे मोक्षाभावोऽनित्यत्वे तत्पूर्वमसंसारः स्यात् । कर्तृत्वाभावे च पुरुषस्य 'पुरुषोऽस्ति भोक्तृभावा' दित्युक्तं भोक्तृत्वमपि त स्यात् कर्तुरेव तत्त्वात् । बुद्धिदर्पणसङ्क्रान्तमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति, तदेव भोक्तृत्वमस्येत्यपि न । आत्मनोऽमूर्त्तद्रव्यत्वेन प्रतिबिम्बानुदयादिति दिक् । अनेकद्रव्यमिति । सन्त्यस्य समानजातीयानि द्रव्यान्तराणि, न तु एक एव हि भूतात्मेति भावः ॥२॥
लक्षणमाह..चिहनं चास्योपयोगः सः, साकारेतरभेदतः ।
द्विविधः स यथासङ्ख्यं, पुनश्चाऽष्टचतुर्विधः ।।१३।। चिह्नमिति । उपयोग इति । उपयोगो ज्ञानदर्शनसमाधिः ।अयमेव च चैतन्यानुविधायी परिणामः । अरत्येव च सूक्ष्म निगोदापर्याप्तस्यापि प्रथमसमये उपयोगमात्रा, परं सा सर्वजघन्या; इयमेव च क्रमावर्धमाना केवलज्ञानसंज्ञिता भवति । स द्विधा, साकारोऽनाकारश्च, ज्ञानोपयोगो दर्शनोपयोगश्चेत्यर्थः । आद्यः सविकल्पो, द्वितीयो निर्विकल्पः । क्रमश्चात्र पागनाकारः पश्चात् साकार इति । तत्र ज्ञानोपयोगोऽष्टधा, दर्शनोपयोगश्चतुर्धा ॥१३॥ ...