________________
एवं जीवोऽपि विज्ञेयो, विशेषस्तूपदर्यते।
अविभुः सक्रियश्वाथाऽनेकद्रव्यं वपुर्मितः ॥१२॥ - एवमिति । असङ्ख्येयप्रदेशः सङ्कोचविकाशस्वभावो जीवः । अत एव क्लीटिकाहस्तिजीवयोरैक्यम् । नाऽयं विभुः, किन्तु शरीरमानः; तद्व्यापित्वेनोपलभ्यमानगुणवत्त्वात् । अत एव सक्रियः, अद्य योजनमात्रमहं. गत इत्यादिप्रतीतेश्च । कथञ्चिन्मूर्त्तत्वादेव चात्मनः क्रियां प्रति मृतत्वेन कारणत्वेऽपि न क्षतिः। न चाऽदृष्टं स्वाश्रयसंयुक्ते आश्रयान्तरे कारभते, एकद्रव्यत्वे सति क्रियागुणहेतुत्वाद् वेगवदित्यात्मविभुत्वसिद्धिरिति वाच्यम् । अयस्कान्तभ्रामकस्पर्श हेतोरनैकान्तिकत्वात्। स्वाऽश्रयसंयोगं विनाऽदृष्टस्य कार्यहेतुत्वात् । न चाऽत्मनो नित्यमह त्वेन विभुत्वम् । आत्मपरिमाणपरिणतिविशेषे शरीरनामकर्मणो हेतुत्वात् तस्यः नित्यत्वाऽसिद्धेः । इत्थं च • तत्त्वज्ञानबलाहितशूकरादिकायव्यू. होऽपि योगिनो निरस्तः । यतो नरकादिदुःखजनकब्रह्महत्यादि प्रयोजकाऽदृष्टसत्त्वे तस्य नारकब्रह्मघातकदेहपरिग्रहोऽपि स्यादिति महद्वैशसम् । तादृशादृष्टविरह एव तत्त्वज्ञानोत्पत्तिरिति चेत् , शूकरादिशरीरोत्पादकोऽदृष्टाऽसत्त्व एव तत्त्वज्ञानोत्पत्तिरित्यपि किं न स्यादिति । सक्रियत्वादेव च बन्धमोक्षावप्यात्मनो घटेते । अभिनवकर्मादानरूपो हि बन्धः । पूर्वदेशविभागपूर्वकोत्तरसिद्धिक्षेत्रप्राप्तिरूपश्च मोक्षः । अत एव कौटस्थ्यमपि निरस्तम् । तच्चैवम्- . ".. अकारणमकार्यः कूटस्थचैतन्यस्वरूपः पुरुषः । अचेतना की प्रकृतिः । तत्परिणामश्च बुद्धिः; सैव महत्तत्वमन्तःकरणम् । तद्गतचैतन्याभिमानाऽन्यथानुपपत्त्या पुंसः सिद्धिः । तस्या एवेन्द्रियप्रणालिकया ज्ञानरूपपरिणामेन सम्बद्धो घटादिविषयः पुरुषस्योपधानीभवति, विषयावच्छेदाभावाच्च मोक्षः । भेदाऽग्रहाच्च चेतने कर्तृत्वाभिमानो बुद्धौ चैतन्याभिमानश्च । तस्याश्च कृत्यध्यवसायो व्यापारः, अभिमानोऽहङ्कारस्य, मनसो विकल्प इन्द्रियाणामालोचनम् । 'ममेदं कर्त्तव्य'मिति मदंशश्चेतनोपरागो दर्पणस्येव मुखोपरागो बुद्धेः स्वच्छतया तत्प्रतिबिम्बादतात्त्विकः । 'इद'मिति विषयोपराग इन्द्रियप्रणालिकया परिणति