________________
- ८३
एकप्रदेशमुख्येष्व-प्युक्ताऽन्या तत्र सर्वतः । प्रदेशानां हि संहार-विसौं स्तः प्रदीपवत् ॥११॥ .
अनन्तोऽयमिति । आकाशस्याऽनन्ताः प्रदेशाः । आकाशं शुषिरलक्षणमेकरूपं तद्धर्मादिद्रव्यैरवगाढं लोकाकाशमित्युच्यते, तच्छून्यं स्वलोकाकाशमिति । यत्रामुलाऽसङ्खयेयभागप्रमाणैर सङ्खयैर्भागैरसङ्खयेया लोकाकाशप्रदेशा विभज्यन्ते, तत्रैकस्मिन्नसङ्खयेयप्रदेशे वियत्खण्डे जघन्यत एकजीवस्यावगाहो भवति, कस्यचित् पुनस्तादृशे खण्डद्वये; कस्यचित्तादृशेषु त्रिषु खण्डेष्वित्यादि । आसमस्ताच्चेति । केवलिनः पुनः समुद्घातकाले सकललोकाकाशेऽवगाहो भवति; अलोकस्य त्वेकमपि प्रदेशं स नाकामति ।
अथ धर्मास्तिकायादीनामजीवानामवगाहनामाह-अजीवानां विति । सा द्विविधा, मूर्तावगाहनाऽमूर्तावगाहना च । तत्राद्या पुद्गलानाम् । सा चैकप्रदेशादिषु भाज्या; तद्यथा-परमाणोरेकस्मिन्नेव प्रदेशेऽवगाहना, द्वयणुकस्यैकस्मिन् द्वयोर्वा, त्र्यणुकस्यैकस्मिन् द्वयोस्त्रिषु वा; एवं यावत् सङ्खयेयाऽसङ्खयेयाऽनन्तप्रदेशस्य च स्कन्धस्यैकादिषु सङ्खयेयेष्वसङ्खयेयेषु वा प्रदेशेष्ववगाहना बोध्या । अचित्तमहास्कृन्धस्य तु केवलिसमुद्घातवत् समस्तलोकेऽपि सा । यथैकप्रदीपप्रभावभासिते भूमिगृहे प्रदीपसहस्रप्रभापुद्गलानामप्यनुप्रवेशो दृष्टस्तद्वदेकस्मिन्नेव • नभःप्रदेशे घनपरिणतिविशेषेणानन्तपरमाणुस्कन्धस्याप्यवस्थानं न विरुद्धमिति । द्वितीयामाह-अन्येति । धर्मास्तिकायाऽधर्मास्तिकाययोः कृत्स्ने लोकाकाशेऽवगाह - इति । नन्वसङ्खचेयभागादिषु जीवानामवगाहे को हेतुरित्यत आहप्रदेशानामिति । यथा प्रदीपः स्वल्पेऽवकाशे सङ्कोचमास्थायास्ते महति चोपध्ने विकाशं भजते, तथाऽत्मप्रदेशानां सङ्कोचविकाशधर्मत्वात् प्रकर्षप्राप्तसङ्कोचस्यात्मनो लोकस्यैकस्मिन्नसङ्खयेयभागेऽवस्थानं, प्रकृष्टविकाशप्राप्तस्य च केवलिनः सर्वलोके ऽवगाहो, मध्यमावस्था चाऽने कभेदेति । अनन्तानन्तप्रदेशप्रचितकार्मणशरीरोपश्लेषाच्च जघन्यतोऽप्यसङ्खयेयप्रदेशावगाहितैव, नैकादिप्रदेशावगाहिता; जीवस्य स्वभावो ह्ययमिति ॥ ९-१०-११ ॥