________________
प्रियमाणतैव । धर्मास्तिकायाऽधर्मास्तिकायलोकाकाशास्तिकायैकजीवास्तिकायानां प्रत्येकमसहयेयाः प्रदेशाः । अलोकाकाशस्याऽनन्ताः । पुद्गलानां सङ्खचेयाअसङ्खयेया अनन्ताश्च । नाऽणोः प्रदेशाः । अत्रेदं बोध्यम् ; द्वये प्रदेशाः, द्रव्यरूपाः पर्यायरूपाश्च । तत्र रूपादयः पर्यायरूपाः, तैरणुरपि सप्रदेशो बोध्यः । पुद्गलवर्जानि धर्मास्तिकायादीनि अरूपीणि । जीवपुद्गलवर्जानि एतानि निष्क्रियाणि । जीवाः-पुद्गलाश्चेतो देशान्तरमास्कन्दन्तः समुपलभ्यन्तेऽतः क्रियावन्तः । धर्मादयस्तु पूर्वावष्टब्धप्रदेशात् प्रदेशान्तरमपि विचलितुमनुत्सहमाना देशान्तर प्राप्तिलक्षणक्रियाधारतां कथं प्रतिपत्स्यन्ते ? । उत्पादविगमलक्षणा क्रिया तु सर्वत्र सदाऽस्त्येव । एवं जीवपुद्गला अनेकद्रव्याणि, शेषाणि त्वेकद्रव्याण्येव । नैषां समानजातीयानि द्रव्यान्तराणि सन्तीति भावः ॥७॥
तथैवाऽधर्म आदिष्टः, परं स्थित्युपकारकः । अवगाहद आकाशो, वस्तूनामवगाहिनाम् ॥८॥
तथैवेति । पूर्वोक्तस्वरूप इत्यर्थः । अधर्मास्तिकायः स्वत एव स्थितिपरिणामवतां जीवपुद्गलानां स्थितेरपेक्षाकारणम् । अवगाह्यमानधर्मानदिद्रव्याणामवगाहनेऽपेक्षाकारणमाकाशम् ; न पुनरनवगाहमानं पुद्गलादि बलादवगाहयति । अत्र धर्माऽधर्मप्रदेशानां लोकाकाशप्रदेशाभ्यन्तरवर्त्तित्वात्तयोरन्तरवकाशदानेनोपकरोति । पुद्गलजीवानां तु स्वल्पतसऽसङ्खयेयप्रदेशव्यापित्वात् क्रियावत्वाच्च संयोगैविभागैश्चाप्युपकरोति । अत्रैकस्याप्यवगाहस्यावगाह्योपाधिभेदान्नानात्वेऽपि न क्षतिरिति ॥ ८॥
अनन्तोऽयं प्रदेशैश्च, लोकालोकविभागभाक् । तदसङ्ख्येयभागादि-वात्मनामवगाहना ॥९॥ आसमस्ताच्च लोकात् सा-ऽजीवानां त्ववगाहना । मूर्ताऽमूर्तप्रभेदेन, द्विविधाधावगाहना ॥१०॥