________________
विषयवृत्तिद्रव्य व्याप्यजातिमत्त्वं तेन न परमाण्वादावव्याप्तिरतिव्याप्तिश्व रूपादौ । क्षितिजलयो रसवत्त्वं गुरुत्ववत्त्वं । प्राणादीनामपि तत्त्वेन तदुन्नेयम् । पृथिवीतेजसोनैमित्तिकद्रवत्ववत्त्वं, तच्च तत्समानाधिकरणद्रव्यस्वव्याप्यजातिमस्वम् । पृथिव्यप्तेजोवाय्वाकाशात्मनां विशेषगुणवत्त्वं साधर्म्यम् । यस्य यत् साधर्म्य, ज्ञेयत्वादि विना, तदितरेषां वैधयं बोध्यमिति द्रव्यस्वरूपम् । ___ तदेतन सम्यक् । तथा हि-पृथिव्यप्तेजोवायुमनांसि तावत् पुद्गलद्रव्यमेव, मूर्तक्रियावत्त्वात् । आत्मपरिणमिता वा पृथ्व्यादयः पुद्गला जीवा एव, मनुजादिवत् । भावमनस्त्वात्मगुण एवेति न तेषां पृथग् द्रव्यत्वम् । पृथ्व्यादिपरमाणव एव हि प्रयोगविस्रसाभ्यां जलादित्वेन परिणमन्ति । जातिभेदेनाऽ. त्यन्तं तेषां भेदे चान्योन्यमुपादेयभावो न स्यात्, अस्ति चाऽयं; चन्द्रकान्ताजलस्य, जलान्मुक्ताफलादेः, काष्ठादनलस्यानिला जलस्य चोत्पत्तेरानुभविकत्वात् । यद्रव्यं यद्यध्वंसजन्यं तत् तदुपादानोपादेयमिति नियमाच्च । दृष्टं चैतत् खण्डपटे महापटध्वंसजन्ये, करकाध्वंसजन्ये जले, पाषाणध्वंसजन्ये भस्मनि च । अत एव च पाषाणभस्मपरंमाणूनामैक्येन पाषाणस्यापि गन्धवत्त्वम् । इत्थं च गन्धः पृथ्यामेव, स्नेहो जल एव, रूपवत्त्वं क्षित्यादित्रयाणामेवेत्यादि निरस्तम्; पाषाणादौ गन्धस्येव पृथ्व्यादौ सर्वत्र स्नेहादेः सिद्धेः; अनुत्कटत्वाच्चाऽप्रत्यक्षम् । एवं च गन्धं प्रति पृथिवीत्वेन, स्नेहं प्रति जलत्वेनेत्यादिकारणताभेदाऽकल्पनलाघवमपि । पुद्गलत्वेनैव रूपादिकं प्रति कारणतायां लघीयस्त्वात् । एतेन लक्षणान्यपि, खण्डितानि ॥६॥ धर्मादीन् लक्षयतिगत्युपकारकोऽसङ्ख्य-प्रदेशोऽरूपिनिष्क्रियः। एकद्रव्यं समाख्यातो, धर्मो धर्मोपदेशिभिः ॥७॥
गतीति । स्वत एव गतिपरिणामवतां जीवपुद्गलानां गतेरपेक्षाकारणं धर्मास्तिकायः । उपकारो हि सर्वत्र गतिस्थित्यवगाहपरिणतद्रव्यसामीप्येन व्या