________________
जीवात्मेन्द्रियाद्यधिष्ठाता विभुः । 'अहं जाने' इत्यादिप्रतीतेश्च ज्ञानसुखादि. योग्यविशेषगुणसम्बन्धेन प्रत्यक्षः । यतोऽइमिति प्रत्यक्षविषयत्वमात्मनः, अत एंव सुषुप्तौ नाध्यक्षः । परदेहे रथक्रियया सारथिरिव चेष्टयानुमेयः, प्रयत्नसाध्यत्वारचेष्टायाः । नित्यज्ञानादिमानीश्वरः । अत्रात्मत्वजातिरस्तीति केचित् । नास्तीत्यन्ये । क्षित्यादीनां कर्तृतयाऽस्य सिद्धिः। ' द्यावाभूमी जनयन् देव एक ' इति श्रुतेश्च । सुखादिसाक्षात्कारकारणं मनः । सुखदुःखादिसकलसाक्षात्कारकरणतया लाघवादेकस्यैव मनसः सिद्धिः । एवं सुखाद्यसमवायिकारण संयोगाश्रयो मनः । तच्चाणु, ज्ञानानामयोगपद्यात् । नापि सङ्कोचविकासशालि, अनन्तावयवतन्नाशादिकल्पनागौरवात् । दीधितिकृतस्तु पृथ्वी, जलं, तेजो, वायुरात्मेति पञ्चैव द्रव्याणि; दिक्कालाकाशा नेश्वरादतिरिक्ताः; त्रसरेण्वात्मकं च मन इति । अत्र पृथ्व्यादीनां नवानां द्रव्यत्वं गुणवत्त्वं च साधर्म्यम् । मनसः पृथिव्यादिचतुर्णा च परत्वाऽपरत्वक्रियावेगवत्वमूतत्वानि । परत्वादिमत्त्वं च परत्वादिसमानाधिकणद्रव्यत्वव्याप्य जातिमत्त्वं, एवमग्रेऽपि बोध्यम् , तेन यत्र घटादौ परत्वादिकं नोत्पन्नं तत्र नाऽव्याप्तिः। नभश्चतुष्कस्य विभुत्वं परममहत्परिमाणवत्त्वं च । क्षितिपञ्चकस्य भूतत्वम् । तच्च ब्रहिरिन्द्रियजन्यलौकिकप्रत्यक्षविषयस्वरूपयोग्यविशेषगुणवत्त्वं तेनोपनीतभानमादाय नात्मन्यतिप्रसङ्गो न वा परमाण्वादावव्याप्तिः । यद्वा आत्माऽवृत्तिविशेषगुणवत्त्वं तत्त्वम् । आद्य चतुष्कस्य स्पर्शवत्वं द्रव्यसमवायिकारणत्वं च । आकाशात्मनामव्याप्यवृत्तिविशेषगुणवत्त्वं क्षणिकविशेषगुणवत्त्वं च । स्वसमानाधिकरणात्यन्ताभावप्रतियोगिबमव्याप्यवृत्तित्वम् । क्षणिकत्वं च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वं; योग्यविभुविशेषगुणानां स्वोत्तरवर्तिविशेषगुणनाश्यत्वनियमात् ; चतुःक्षणवृत्तिजातिमत्त्वमिति तु तत्त्वम् । तादृशो गुणः शब्दो बुद्धयादिश्च । पृथिव्यप्तेजसां रूपवत्त्वं द्रवत्ववत्त्वं प्रत्यक्षविषयत्वं च । चक्षुरादीनां वाय्यानीतपृथिव्यादिभागानां च तेजस्वपृथ्वीत्वादिना रूपमुन्नेयम् । द्रवत्ववत्त्वं द्रवत्ववद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं, तेन घटादौ वह्नयादौ च नाऽव्यातिः । प्रत्यक्षविषयत्वं च चाक्षुषलौकिकप्रत्यक्ष