________________
७९
अन्वात्, प्रदीपवत् । विषयो वह्निसुवर्णादयः । अत्यन्तानलसंयोगे ऽप्यनुच्छिद्यमानजन्यद्रवत्ववत्त्वाच्च सुवर्णस्य तैजसत्वम् । अपाकजाऽनुष्णाशीतस्पर्शवान् वायुः । अयं न प्रत्यक्षः ; किन्तु विजातीयस्पर्शन, विलक्षणशब्देन, तृणादीनां धृत्या, शाखादीनां कम्पनेन चाऽनुमीयते । नित्यतादि पूर्ववत् । शरोरमयोनिजं पिशाचादीनाम् । इन्द्रियं स्पर्शनेन्द्रियं देहव्यापि तच्च वायवीयं, रूपादिषु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वाद्, अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकव्यजनपवनवत् । विषयः प्राणादिर्महावायुपर्यन्तः । प्राणश्चैकोऽपि स्थानभेदात् क्रियाभेदाच्च नानासंज्ञावान् । शब्दाश्रय आकाशम् । इदं चैकमपि कर्णशष्कुलीभेदाद् भिन्नं श्रोत्रेन्द्रि यात्मकं भवति । प्रथमं तावत् शब्दस्य चक्षुर्ग्रहणाऽयोग्य बहिरिन्द्रियग्राह्यजातिमत्त्वेन विशेषगुणत्वे सिद्धे, तेन द्रव्यसमवेतत्वे सिद्धे, अग्निसंयोगाऽसमवायिकारणकत्वाभावे सति अकारणगुणपूर्वक प्रत्यक्षत्वेन स्पर्शवद्विशेषगुणत्वबाधे, विशेषगुणत्वेन दिक्कालमनोगुणत्वबाधे, बहिरिन्द्रियग्राह्यत्वेन चात्मविशेषगुणत्वबाधे, परिशेषतः शब्दाधिकरणं नवमं गगनात्मकं द्रव्यं सिद्धयति । न च वाय्ववयवेषु सूक्ष्मशब्दमेण कारणगुणपूर्वक एव 'शब्दः; अयावद्द्रव्यभावित्वेन वायुविशेषगुणत्वाऽभावात् । ज्येष्ठत्वकनिष्टत्वादिधीहेतुः कालः; कालिकपरत्वाऽसमवायिकारणसंयोगानुयोगी, जन्यं प्रति निमित्तकारणं; सर्वाधारश्च । तथा हि- 'इदानीं घट' इति ज्ञाने सूर्य परिस्पन्द रूपै तत्काले घटस्याssधारता भासते । सा च स्वसंयुक्तसंयोगितपनाश्रितत्वसम्बन्धेनैवेति तद्घटकतया सिध्यन् काल आधार एव । एकोऽप्ययमुपाधिभेदात् क्षणादिव्यवहारविषयः । उपाधिश्व स्वजन्यविभागप्रागभावावच्छिन्नं कर्म, पूर्वसंयोगावच्छिन्न विभागो वा, पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावो वा, उत्तरसंयोगावच्छिन्नं कर्म वा । महाप्रलये तद्व्यवहारस्तु चरमध्वंसेनैव नैव । दिनादिव्यवहारस्तु तत्तत्क्षणकूटैरवेति । दैशिकपरत्वापरत्वबुद्धेरसाधारणकारणं दिक् | उपाधिभेदादेकापि प्राच्या दिव्यपदेशभाक् । यत्पुरुषस्योदयगिरिसन्निहिता या दिकू सा तस्य प्राची, तद्वयवहिता प्रतीची; सुमेरुसन्निहितोदीची, तद्वयवहिता त्ववाची; " सर्वेषामेव वर्षाणां, मेरुरुत्तरतः स्थित" इति नियमात् । ज्ञानाधिकरणमात्मा । स द्विविधो जीवात्मा परमात्मा च तत्र