________________
७:
शरीरेन्द्रियविषयभेदात् त्रिधा। शरीरं मानुषसोद्भिज्जादीनां; गन्धादिमत्त्वाच्चैतछरीराणां पार्थिवत्वम् । न च क्लेदादिमत्वादाप्यत्वादिकमपि स्यात् , जलवपृथिवीत्वादिना सार्यात् । शरीरत्वं च चेष्टाश्रयत्वं, न तु जातिः, पृथिवीत्वादिना सार्यात् । हस्तादौ शरीरत्वाऽव्यवहारे अन्त्यावयविमात्रवृत्ति-चेष्टाववृत्ति द्रव्यत्वव्याप्यजातिमत्त्वं तद् बोध्यं; तादृशी च जातिर्मानुषत्वादिः, तेन मृतशरीरेऽपि नाऽव्याप्तिः । नृसिंहत्वमपि जातिरेव, कल्पभेदेन तच्छरीरनानात्वादिति नरसिंहशरीरेऽपि नाऽव्याप्तिः । इन्द्रियं घ्राणेन्द्रियं, तच्च पार्थिवं, रूपादिषु मध्ये गन्धस्यैवाऽभिव्यञ्जकत्वात् , कुङ्कुमगन्धाभिव्यञ्जकगोघृतवत् । घ्राणेन्द्रियसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वं देयम् । इन्द्रियत्वं च शब्देतरोद्भूतविशेषगुणाऽनाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् । उपभोगसाधनं विषयो
यणुकादिब्रह्माण्डान्तः । सर्वमेव हि कार्य साक्षात् परम्परथा वाऽदृष्टद्वारोपभोगं जनयत्येवेति। शीतस्पर्शवजलं, स ह्येवात्र स्पर्शः । कचिदुष्णस्पर्शस्त्वौपाधिकः । रूपं शुक्लमेव । तद्घटितं लक्षणं तु भास्वरशुक्लेतररूपाऽसमानाधिक णरूपवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं, तेन स्फटिकादौ नाऽतिव्याप्तिः । कालिन्दीजलादौ नीलिमोपलब्धिन्तिरेव, नीलजनकतावच्छेदकपृथिवीत्वजातेस्तत्राऽभावात्। रसो मधुर एव, हरीतक्यादिभक्षणानन्तरं माधुर्योपलब्धेः। द्रवत्वं सांसिद्धिकम् । नित्यत्वादिकं पूर्ववदेव । शरीरं तु जलीयमयोनिजमेव, तच्च वरुणलोके । अत्र जलीयतैजसीयवायवीयशरीराणां पार्थिवभागोपष्टम्भाद्रुपभोगक्षमत्वं, जलादीनां प्राधान्याच जलीयत्वादिकम् । इन्द्रियं रसनेन्द्रियं, तच्च जलीयं, गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् , सक्तुरसाभिव्यञ्जकोदकवत् । विषयः समुद्रहिमादयः । उष्णस्पर्शवत्तेजः । चन्द्रकिरणादौ तदन्तर्वतिंजलस्पर्शेनाभिभवाद् रत्नकिरणादौ पार्थिवस्पर्शनाभिभवाच्चक्षुरादौ चाऽनुद्भूतत्वात्तदग्रहः। रूपं शुक्लभास्वरं, वैश्वानरे मरकत करणादौ च पृथ्वीरूपेणाऽभिभवात्तदग्रहः । द्रवत्वं नैमित्तिकं सुवर्णादौ । नित्यत्वादिकं पूर्ववत् । शरीरमयोनिजं सूर्यलोकादौ । इन्द्रियं चक्षुरिन्द्रियं, तच्च तैजसं, परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्य