________________
のの
ऽनित्यवृत्तित्वेन कार्यतावच्छेदकत्वे, नित्यस्य स्वरूपयोग्यत्वे फलावश्यम्भावनियमस्य प्रामाणिकत्वे च जन्यस्नेहजनकतावच्छेदकतया जन्यजलत्वजातिसिद्ध्या तजनकतावच्छेदकतया जलवजातिसिद्धिः परमाणावपि भाव्या । एवं तेजस्त्वादिकमपि बोध्यम् । आकाशत्वादिकं त्वेकव्यक्तिवृत्तित्वेन जातिरेव न । मानसप्रत्यक्ष कारणतावच्छेदकतया च मनस्त्वं जातिः । अत्र गुणविभाग एवम् :
" स्पर्शादयोऽष्टौ वेगश्च द्रवत्वं च गुरुत्वकम् । रूपं रसस्तथा गन्धः, क्षितावेते चतुर्दश ॥ गन्धहीनाः स्नेहयुक्ता, वारिण्येते चतुर्दश । स्पर्शाद्यष्टौ रूपवेगौ, द्रवत्वं तेजसो गुणाः ॥
स्पर्शादयोऽष्टौ वेगश्च, वायौ व्योम्नि सशब्दकाः । पश्च सङ्खयादयः काल–दिशोः सङ्ख्यादिपञ्चकम् ॥ बुद्ध्यादिषट्कं सङ्ख्यादि-पञ्चकं भावना तथा । धर्माधर्मौ गुणा एते - आत्मन स्युश्चतुर्दश ॥
सङ्ख्यादिपञ्चकं बुद्धि-रिच्छा यत्नोऽपि चेश्वरे । सङ्खयाधीच्छासुखं यत्नः, पञ्चात्रेति नूतनाः ॥ परापरत्वे सङ्ख्यादि, पञ्च वेगश्च मानसे ||" इति ।
-
तत्र गन्धवती पृथिवी । अत्र रूपं शुक्लादि नाना, अत्रैव पाकेन नानारूपसंम्भवः । नानारूपत्वं च रूपद्वयवद्वृत्ति - रूपनाशवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं इत्थं च यत्राऽनेकरूपं नोत्पन्नं तत्र पीलुपाकमतेऽवयविनि च नाव्याप्तिः । एवमग्रेऽपि बोध्यम् । रसो मधुरादिः षड्रविधः । गन्धः सौरभासौरभभेदेन द्विधा । स्पर्शः पाकजोऽनुष्णाशीतः । लक्षणं तु पाकजस्पर्शवत्त्वमात्रं, तच्च पाकजंस्पर्शवद्वृत्तिद्रव्यत्वव्याप्यजतिमत्त्वं तेन पटादौ नाव्याप्तिः । द्रवत्वं त्वत्र नैमित्तिकम् । स्नेहस्तु घृतादौ तदन्तर्वर्तिजलस्यैव । सा नित्याऽनित्या च । नित्या परमाणुरूपा, अनित्या यणुकादिरूपा सर्वाः सैवाऽवयववती । इयं च
"