________________
૭૬
नाशः; तव निर्धर्मके ब्रह्मणि सत्यत्वाभावेऽपि सत्यस्वरूपं तदितिवद् द्वित्वाऽभावेSपि व्यक्तिद्वयात्मको ताविति सुवचत्वात् । तत्र तदात्मको मिथ्यात्वाभावः सत्यत्वमिति चेत्, व्यक्तिद्वयात्मक एकत्वाभावो द्वित्वमित्यप्युच्यताम् । प्रत्येकमेकत्वेऽपि ' पृथिवीजलयो नै गन्ध' इतिव'दुभयं नैक' मित्यस्य सर्वसिद्धत्वात् । 'ब्रह्मविद् ब्रह्मैव भवती ' - त्यपि निर्दुः खत्वादिना साम्यपरं सम्पदाधिक्ये 'पुरोहितोऽयं राजा संवृत्त' इतिवत् । अत एव 'निरञ्जनः परमं साम्यमुपैती' त्यपि श्रूयते । किञ्चाऽविद्यायाः सत्त्वे द्वैतापत्तिः, असत्त्वे तु भेदाभासोऽनिबन्धनः स्यात् । ब्रह्माऽभिन्नैव सा भेदनिबन्धनमित्यपि न प्रमाणाभावात्, भावे वा द्वैतापत्तिरिति । एतेन त्रिगुणमायाशबलाञ्चिदात्मनोऽपञ्चीकृतानि तन्मात्र पदवाच्यानि तन्मात्रपदवांच्या पञ्चभूतानि जायन्ते । एतैश्च सत्वगुणोपेतैस्तैः क्रमेण पञ्चज्ञानेन्द्रियाणि, सम स्तेभ्यश्च मनोबुद्धयहङ्कारचित्तानि । रजोगुणोपेतैश्च तैः पञ्च कर्मेन्द्रियाणि, समस्तेभ्यश्च पञ्च वायवः । तैरेव तमोगुणोपेतैः पञ्चीकृतभूतानि । एवं मायाप्रतिबिम्बमीश्वरचैतन्यमन्तःकरणप्रतिबिम्बं जीवचैतन्यमुभयसाधारणं चैतन्यमात्रं बिम्बमित्यादि निरस्तम् ।
स्वभावेन प्रयोगेण वा यत् संयुज्यते वियुज्यते चेत्येवंपूरणगलनस्वभावं तत् पुद्गलास्तिकायद्रव्यं प्रतीतमेव । शीतातपादीनामृतुविभागेन भवनान्यथानुपपत्त्या तन्नियतहेतुतया कालसिद्धिः । अस्तिकायश्वाऽत्र प्रदेशसङ्घातः । तत्र सकलदेशप्रदेशानुगत समान परिणतिमद्विशिष्टं द्रव्यं धर्मास्तिकायः । एवं तस्यैव धीकल्पितो द्वादिप्रदेशात्मको भागस्तदेशः । तथैव निरंशो भागस्तत्प्रदेशः । एवमधर्मास्तिकायादिप्रकारोऽपि भाव्यः । लक्षणमाह-गुणेति । एतेन पूर्वोक्तानि क्षित्यादीनि नव द्रव्याणीति निरस्तम् ।
( नैयायिकाभिमत) नवद्रव्य स्वरूपं चैवम्
:
तत्र गन्धस्नेहोष्णस्पर्शविजातीय स्पर्शसुखादिसमवायिकारणतावच्छेदकतया क्रमेण पृथ्वीत्व - - जलव - तेजस्त्व - वायुत्वा - त्मत्वजातिसिद्धिः । स्नेहत्वस्य नित्या