________________
जनितवासनाया उत्तरोत्तरविज्ञाने संक्रमान्नानुपपत्तिः स्मृतेः । तथा चाऽत्मापि क्षणिकविज्ञानमेव; तस्य स्वप्रकाशत्वाच्चेतनत्वमिति” चेत् ।
मैवम् । अन्तर्बहिर्भासमानतया नीलसंविदोर्भदात् । न च सहोपलम्भादभेदः, सहार्थस्यैवाऽभेदाऽसहत्वात् । किञ्च तस्य सर्वविषयकत्वे सार्वश्यापत्तिः, यत्किञ्चिद्विषयकत्वेऽपि विनिगमनाविरहः । 'अहं ज्ञान'मित्यननुभवश्च । सुषुप्तावपि विषयभानप्रसङ्गः स्थात्, तदा निर्विषयत्वे चित्त्वाऽयोगात् । घटाद्याकारस्य ज्ञानस्वभावत्वे च 'ज्ञानं घट' इत्यपि प्रमा स्यात् । किश्चाकारस्य तद्भिन्नत्वे ज्ञानाऽद्वैतव्याघातः, अनतिरिक्तत्वे च चित्रज्ञाने नीलाकारोऽपि पीताकारः स्यात् ; ज्ञानस्य स्वरूपतोऽविशेषात् , अन्यथा क्वापि विरोधावधारणं न स्यात् । न वा वासनासङ्क्रान्तिर्मातापुत्रयोरपि तत्प्रसङ्गात् । नवोपादानोपादेयभावो नियामको, वासनायाः सङ्क्रमाऽयोगात् । न चोत्तरस्मिन्नुत्पत्तिरेव सङ्क्रमः, तदुत्पादकाभावात् ; चितां चोत्पादकत्वे तदानन्त्यप्रसङ्गः । नापि क्षणिक विज्ञानेष्वतिशयविशेषकल्पना, मानाभावात् , कल्पनागौरवाच्च । एतेन क्षणिकशरीरेष्वेव चैतन्यं प्रत्युक्तं, ‘स एवाय' मित्यापामरप्रत्यभिज्ञानाच्च । इत्थं च बीजादावपि न कुर्वद्रूपत्वकल्पनं, सहकारिलाभालाभा'भ्यामेव कार्य करणाऽकरणयोरुपपत्तेरिति ।
एतेन 'एकमेव वाऽद्वितीयं ब्रह्म, नेह नानाऽस्ति किञ्चनः तच्च निर्विकल्पकमविद्यया भेदरूपं प्रकाशते । तथा च 'नित्यं विज्ञान मेवात्मा. "अविनांशी वाऽरेऽयमात्मा" "सत्यं ज्ञानमनन्तं ब्रह्मे" ति श्रुते' रिति निरस्तम् । श्रुतेरमानवाच्च । 'सत्यं ज्ञान' मिति तु ब्रह्मपा; ज्ञानाज्ञानसुखित्वदुःखित्वादिभिर्जीवानां भेदात् सुतरामीश्वर भेदः । अत एव 'द्वे ब्रह्मणी वेदितव्ये' इत्यपि श्रूयते । अन्यथा बन्धादिव्यवस्था न स्यात् । न च 'तत्त्वमसी' त्यभेदे मानं; तस्याः स्तुत्यर्थवादत्वेन ईश्वराऽभेदभावनाविषयकयत्नपरत्वात् । अत एव 'सर्वे एते आत्मानः समर्पिता' इत्यपि सङ्गच्छते । न चाऽज्ञाननिवृत्तौ मोक्षदशायामभेदः; भेदस्य नित्यत्वात् ; अनित्यत्वेऽपि व्यक्तिद्वयं स्थास्यत्येव । न च द्वित्वस्याऽपि