________________
धर्मेति । धर्मास्तिकायाऽधर्मास्तिकायाऽऽकाशास्तिकायजीवास्तिकायपुद्गलास्तिकायकाला द्रव्याणि । गतिपरिणामवतामपि जीवपुद्गलानां नाऽलोके गतिरिति गतिविरहान्यथानुपपत्त्या तत्र गत्यपेक्षाकारणद्रव्याभावे सिद्धे तत्प्रतियोगितया धर्मास्तिकायसिद्धिः । यद्वा 'गतिलक्षणं पुद्गलास्तिकायादिकाय विशिष्ट कारण प्रभवं, विशिष्टकार्यत्वात् शाल्यकुरादिकार्यवदि' त्यनुमानात तत्सिद्धिः । एवं स्थितिकायोत्सर्गशयनादिस्थिरभावोपष्टम्भकारणतया अधर्मास्ति' कायसिद्धिः । आकाशमपि 'द्रव्याणि यत्किञ्चिदधिष्ठितानि, साधारत्वान्यथाऽनु-. पपत्ते' रित्यनुमानादाधारक स्वभावं सिद्धयति । प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धचैतन्यान्यथाऽनुपपत्त्या, आत्मसिद्धिः । चक्षुरादीनां ज्ञानकरणानां कचौरं विना फलोपधानानुपपत्त्याऽपि तत्सिद्विः । न हि चैतन्यं देहस्य धर्मः, आनुरूप्याs: भावेन जलकाठिन्ययोरिव धर्मधर्मिभावाऽनुपपत्तेः । एवं शरीरस्य चैतन्ये बाल्ये दृष्टस्य यौवनादौ स्मरणं न स्यात् । अवयवोपचयापचयैः परिमाणभेदेन देहभेदस्यावश्यकत्वाद्, अनुभवस्मरणयोः सामानाधिकरण्येन कार्यकारणभावनियमादन्येनाऽनुभूतस्याऽन्येन स्मरणाऽसम्भवाच्च । पूर्वशरीरसंस्कारेणोत्तरशरीरसंस्कारोत्पादने संस्कारानन्त्यप्रसङ्गः । किं चैवं बालकस्य स्तनपानादौ कपिशिशूनां शाखावलम्बने च प्रवृत्तिर्न स्यात्; तद्धेत्विष्टसाधनतानुभवस्य तदानीमभावात् । अत्र तु भावान्तरानुभूतेष्टसाधनत्वस्मरणादेव प्रवृत्तिः । उद्बोधकाभावाच्च नान्यत् स्मरणं, सति तूद्बोधके भवत्यपि । नापि चक्षुरादीनां चैतन्य एवं हि पूर्वं चक्षुषाऽनुभूतानां चक्षुर्नाशे स्मरणं न स्यादनुभवितुरभावात् । मनोऽपि न चेतनः, पौद्गलिकत्वात् । यत्तु मनसि चैतन्याङ्गोकारे ज्ञानादिप्रत्यक्ष न स्यात् , महत्त्वस्य तद्धेतुत्वान्मनसश्वाऽणुत्वादिति । तन्न । तदणुत्वाऽसिद्धेः ।
ननु "ज्ञानाद्वैतमेवः बाह्यार्थस्याऽसिद्धेः । जडस्य हि न स्वप्रकाशः । परप्रकाशादपि न तसिद्धिः; नीलसुखादिव्यतिरिक्तविज्ञानाऽसंवेदनात् । . नीलादिकं तस्यैवाकारविशेषः, भावत्वादेव चाऽस्य क्षणिकत्वम् । पूर्वपूर्वविज्ञानस्योत्तोतरविज्ञान हेतुवात् सुषुप्तावप्यालयविज्ञानधाराऽस्त्येव, पूर्वपूर्वविज्ञान