________________
नाऽभावाऽयोगात् । एतेन वायौ रूपसमवायसत्त्वेऽपि रूपाभावान्न तद्वत्तांधीरित्यपि निरस्तम् । किञ्च, वायौ रूपवत्ताधीविरहाद् रूपाभावो रूपाभावात् तद्वत्ताधीविरह इत्यन्योन्याश्रयः । इत्थं च समवायिकारणत्व दिप्रवादोऽप्यस्तं गत इति ।
अभावस्यापि लाघवात् क्लृप्ताधिकरणत्वमेव । न चानन्ताधिकरणात्मकत्वकल्पनापेक्षयाऽतिरिक्तकल्पनाया लबोयस्त्वमिति वाच्यम् । तद्यभावाधिकरणकाऽभावस्यातिरिक्तत्वेऽपसिद्धान्तापत्तेः, धर्मकल्पनालाघवाच्च । सप्रतियोगिकत्वं चाऽत्राऽभाववृत्त्यभावेऽन्यप्रतियोगिकत्वमिव तत्काले बुद्धिजनितव्यवहारविषयत्वादिरूपम् । एतेनमधाराधेयभावस्य तत्तदधिकरणानां तत्तदिन्द्रियाऽग्राह्यत्वात् तत्तच्छन्दरसगन्धाद्यभावप्रत्यक्षत्वस्य चाऽघटनं निरस्तम् । इत्थं च 'धटो नास्ती' त्यादावपि तदुपलक्षितं स्वरूपमेव संसर्गः । न चैवं घटकालेऽपि तदभावधीः स्यात्; यत्काले यद्रव्यं येन परिणमति तत्काले तस्य तत्स्वरूपत्वात् । प्रागभावादिविशेषश्च वक्ष्यते । इत्थं चोक्तसावादिप्रक्रियाऽपि खण्डिता । कारणत्वमपि लाघवादखण्डा शक्तिरेव, नियतपूर्ववर्त्तित्वादिकं च तदभिव्यञ्जकम् । मानं नात्र कार्योत्पत्त्यन्यथानुपपत्तिः । सामग्र्या ह्यपि प्रतिनियतायाः प्रतिनियतकार्यकारित्वमतीन्द्रियशक्तिमन्तरेणाऽसम्भाव्यम् । उत्पत्तिश्चास्याः शक्तादेव । बीजाकुरादिवदनादित्वाच्च तत्प्रवाहस्य नानवस्था दोषाय, अदृष्टवत् । एवं च दाहादिकं प्रति मण्याद्यभावस्य कारणत्वाकल्पनलाघवमपि । कार्यमपि सदसदात्मकम्, सर्वथा सतोऽसतो वाऽकरणात् । कथञ्चिच्छक्तिरूपेण सत् कार्य, न तु व्यक्तिरूपेणेति चेत, तर्हि भावानां द्रव्यपर्यायशक्त्यात्मकत्वात् शक्तिव्यं तद्रपतया सतः पर्यायरूपतया चाऽसतो घटादेरुत्पत्त्यभ्युपगमे सिद्धमिष्टं नः । इत्थं च सप्तपदार्थान्तर्भूतप्रमाणप्रमेयादिषोडशानामप्य तरिक्तत्वं परास्तमिति कृतं विस्तरेण ॥५॥
द्रव्याणि विभजतेधर्माधर्मनभोजीव-पुद्गलानेहसस्तथा । द्रव्याणि गुणपर्याय-वत्त्वं तत्वमुदाहृतम् ॥६॥