________________
७२
तन्त्र समीचीनम् । द्रव्यपर्याययोरेव तेषामन्तर्भावात् । रूपादीनां गुणानां हि. यथायथं सहभाविनि क्रमभाविनि वा पर्याय एवाऽन्तर्भावः । कर्मापि देशाद् देशान्तरप्राप्तिहेतुः परिस्पन्दात्मको ह्यर्थस्य परिणामः, स च पर्याय एव; उत्क्षेपणादीनां चात्रैवाऽन्तर्भावः । सामान्यविशेषयोश्चाऽनुगतव्यावृत्तधीहेतुतयाऽभ्युपगतयोरपि न पदार्थान्तरता । वस्तुनः सामान्यविशेषात्मकत्वेन तयोश्च कथञ्चित् तदव्यतिरेकाद् द्रव्यग्रहणेनैव ग्रहणात् । स्वभाव एव चाऽयं सर्ववस्तूनां यदनुवृत्तव्यावृत्तप्रतीती स्वत एव जनयन्ति । पट एव हि तावत् तथाविधाकृतिमान् ज्ञानविषयीभवन् सन्नपरानपि तथाऽऽकृतिमतोऽर्थान् पटरूपतया पटशब्दैकवाच्यतया च प्रत्याययन् सामान्यसंज्ञां लभते । स एव चाऽपरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावर्तयन् विशेषाख्यामश्नुते । एवं द्रव्यत्वादेरपि 'द्रव्यं द्रव्य' मित्यनुगतधीकारित्वं, 'इदं द्रव्यं न गुणो न कर्म' तिव्यावृत्तधीकारित्वं च सुप्रतीतमेवेति ।
समवायोऽप्यप्रमाणः, अंशांशिनां गुणगुण्यादीनां सम्बन्धतया भेदाभेद स्यैव सिद्धेः । एकान्तभेदेऽवयवगुरुत्वादवयविगुरुत्वोत्कर्षापत्तिः; एकान्ताभेदे चाsन्धस्य घटादिज्ञाने तद्रूपादिधीप्रसङ्गः। एवं 'घटः पटो'-'घटो घट' इत्यादिप्रतीत्यभावादत्यन्तभिन्नाभिन्नाभ्यां व्यावृत्तं सामानाधिकरण्यमपि तत्र मानम् । न च गुणक्रियादिविशिष्टबुद्धिर्विशेषणविशेष्यसम्बन्धविषया, विशिष्टधीत्वाद्, दण्डी पुरुष इति विशिष्टधीवदित्यनुमानात् समवाय एव तत्सम्बन्ध इति वाच्यम् ; स्वरूपसम्बन्धेनानर्थान्तरात् । न च स्वरूपाणामानन्त्येन गौरवं, धर्मिकल्पनातो धर्मकल्पनाया लघीयस्त्वात् । किञ्चैवमभावस्याऽपि वैशिष्टय सम्बन्धान्त सिद्धयेत् न च तस्याऽनित्यत्वे आनन्त्यकल्पने गौरवं, नित्यत्वे च भूतले घटानथनानन्तरमपि घटाभावधीप्रसङ्गो, घटाभावस्य तत्र सत्त्वात् , तस्य च नित्यत्वात् , वैशिष्टयस्य तत्र सत्त्वादिति वाच्यम् । तवापि पाकरक्ततादशायां घटे श्यामविशिष्टधीप्रसङ्गात, समवायस्य तत्र सत्त्वात्, तस्य चैकत्वात् । न च तत्र तपसमवायसत्त्वेऽपि तहपाऽभावान्न तद्वत्ताबुद्धि, प्रतियोगिसम्बन्धसत्वे तत्सम्बन्धावच्छि