________________
अत्र ज्ञेयत्वादिकं सप्तानां पदार्थानां साधर्म्यम् । समवायित्वमनेकत्वे सति भावत्वं च पञ्चानाम् । द्रव्यादयस्त्रयः सत्तावन्तः । गुणादीनां षण्णां निर्गुणत्वं निष्क्रियत्वं च । सामान्यादीनां सामान्याऽनधिकरणत्वम् । द्रव्यस्य समवायिकारणत्वम् । गुणकर्मभिन्नानामसमवायिकारणत्वं वैधर्म्यम् । कालिकाऽन्यसम्बन्धावच्छिन्नवृत्तित्वं नित्यद्रव्याणां वैधर्म्यम् । अणुपरिमाणकालादिगतपरममहत्परिमाणातीन्द्रियसामान्यविशेषपदार्थानां च कारणत्वं वैधय, तदितरेषां साधर्म्यम् । परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वान्नाणुपरिमाणं कारणम् । कारणत्वं चात्राऽन्यथासिद्धिशून्यत्वे सति नियतपूर्ववृत्तित्वम् । तच्च त्रिविधं, समवायिकारणत्वा-ऽसमवायिकारणत्व-निमित्तकारणत्वभेदात् । समवायसम्बन्धेन कार्याश्रयत्वं समवायिकारणत्वम् । समवाय-स्वसमवायिसमवेतत्वाऽन्यतरसम्बधेन समवायिकारणे प्रत्यासन्नं कारणं ज्ञानादिभिन्नमसमवायिकारणम् । उक्तकारणद्वयभिन्नकारणत्वं निमित्त कारणत्वम् । अन्यथासिद्धाः पश्च । यत् कार्य प्रति कारणस्य पूर्ववर्तिता येन रूपेण गृह्यते, तरकार्य प्रति तद्रूपमन्यथासिद्धं, यथा घटं प्रति दण्डत्वम् । यस्य • स्वातन्त्र्येणाऽन्वयव्यतिरेको न स्तः, किन्तु कारणमादायैवाऽन्वयव्यतिरेको गृह्येते तं प्रति तदन्यथासिद्धं, यथा घटं प्रति दण्डरूपम् । अन्य प्रति पूर्ववर्त्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववर्तित्वं गृह्यते, तस्य तत्कार्य प्रत्यन्यथासिद्धत्वं, यथा धटं प्रत्याकाशस्य । इदं चाऽऽकाशस्य शब्दसमवायिकारणत्वरूपाकाशत्वेनैव घटं प्रति जनकत्वे बोध्यं, शब्दाश्रयत्वेन जनकत्वे तु पञ्चमान्यथासिद्धत्वम् । यत्कार्य जनकं प्रति पूर्ववृत्तितां गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववृत्तित्वं गृह्यते, तस्य तत्कार्य प्रत्यन्यथासिद्धत्वं, यथा कुलालपितुः कुलालपितृत्वेन घटं प्रति जनकत्वे । अवश्यक्लप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तभिन्नत्वमन्यथासिद्धत्वं, यथा घटजातीयं प्रति रासभस्य । एवं प्रत्यक्षे महत्त्वं कारणमनेकद्रव्यत्वमन्यथासिद्धं तत्र हि महत्त्वत्वजातेः कारणतावच्छेदकत्वे लाघवेन महत्त्वस्यैवावश्यक्लृप्तत्वम् । अत्र पश्चमेनैव सेर्वेषां सङ्ग्रहे भेदेनोपादानं शिष्यबुद्धिवेशद्यार्थमिति मन्यन्ते ।