________________
36
कर्मजन्योऽधर्मो नरकादिसाधनम् । श्रोत्रग्राह्यो गुणः शब्दः, ध्वनि--वर्णभेदाद् द्विधा । वीचितरङ्गन्यायेन तदुत्पत्तिरिति ॥
चलनात्मकं कर्म; उत्क्षेपणापक्षेपणा कुश्ञ्चनप्रसारणगमनभेदात् पञ्चधा । भ्रमणरेचनस्यन्दनोर्ध्वज्वलनतिर्यग्गमनानां गमन एवान्तर्भावः । गुणभिन्नत्वे सत्यसमवायिकारणत्वं कर्मणो लक्षणम् । कर्मत्वजातिः प्रत्यक्षसिद्धा; एवमुत्क्षेपणत्वादिकमपि । नित्यत्वे सति अनेकसमवेतत्वं सामान्यत्वम् । संयोगादीनां न नित्यत्वमभावस्य न समवेतत्वं गगनमानादेर्नानेकसमवेतत्वमिति तन्निगसः । तद् द्विविधं परमपरं च । परत्वमधिकदेशवृत्तित्वमपरत्वमल्पदेशवृत्तित्वम् । सर्व1 जात्यपेक्षयाऽधिक देशवृत्तित्वात् सत्तायाः परत्वं द्रव्यत्वपृथिवीत्वादीनां परंत्वमपरत्वं च; चैत्रत्वादिजातेरपरत्वमेव ।
66
"व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथाऽनवस्थितिः । रूपहानिरसम्बन्धो, जातिबाधकसङ्ग्रहः ||"
अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः, परमाणूनां तथाऽन्येषां च नित्यद्रव्याणां परस्परभेदकः स्वत एव व्यावृत्तः । नित्यसम्बन्धः समवायः । अवयवाऽवयविनोजतिव्यक्त्यो गुणगुणिनोः क्रिया क्रियावतो र्नित्यद्रव्यविशेषयोचं स सम्बन्धः ।
द्रव्यादिषट्काऽन्योन्याभाववत्त्वमभावत्वं तद्वानभावः । स द्विधा, संसर्गाभावान्योन्याभावभेदात् । संसर्गाभावस्त्रिधा - विनाश्यभावः प्रागभावः, जन्याभावो ध्वंसः, नित्यसंसर्गाभावोऽत्यन्ताभावश्चेति । अन्योन्याभावभिन्नाभावः संसर्गाभावः । तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावोऽन्योन्याभावः । अत्र तत्तत्कालीनं तत्तद्भूतलादिकं तत्तदभावानां सम्बन्धः । इत्थं च भूतले घटादावपसारिते पुनरानीते च घटात्यन्ताभावस्य नित्यत्वेऽपि न तत्र घटात्यन्ताभावबुद्धिः । अत्रोत्पादविनाशशाली चतुर्थोऽयमभाव इति केचित् । प्रागभावध्वंसौ स्वप्रतियोगिसमवायिकारणवृत्ती । अत्र ध्वंसप्रागभावयोरधिकरणे नात्यन्ताभाव इति प्राचां मतम्, ध्वंसादिकालावच्छेदेनाप्यत्यन्ताभावो वर्तते इति नव्याः ।