________________
. सर्वव्यवहारहेतुर्गुणो बुद्धिः । सा द्विधा, अप्रमा प्रमा च । तत्राऽप्रमा प्रति दोषः कारणं, स च पित्तदूरत्वादिरूपोऽनेकविधः । प्रमा प्रति पुनर्गुणः कारणं; स च प्रत्यक्षे विशेषणवद्विशेष्यसन्निकर्षः; अनुमितौ साध्यवति साध्य- .. व्याप्यवैशिष्टयज्ञानं; उपमितौ शक्ये सादृश्यज्ञानं; शाब्दबोधे योग्यतायास्तात्पयस्य वा प्रमा इति । निर्विकल्पकं तु न प्रमा, नाऽपि भ्रमः, प्रकारतादिशून्यत्वात् ।
अनुकूलवेदनीयं सुखम् । प्रतिकूलवेदनीयं दुःखम् । इच्छा कामः । सा द्विधा, फलविषयिणी उपायविषयिणी च । तत्राऽद्या प्रति फलज्ञानं कारणं, द्वितीयां प्रति विष्टसाधनताज्ञानम् । सुखं दुःखाभावश्च फलम् । एवं कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयिणीच्छा चिकीर्षा; 'पाकं कृत्या साधयामीति तदनुभवात् । तां प्रति कृतिसाध्यताज्ञानमिष्टसाधनताज्ञानं च कारणम् ; बलवद्विष्ट. साधनताज्ञानं प्रतिबन्धकम् । प्रयत्नः कृतिः, प्रवृत्ति-निवृत्ति-जीवनयोनियत्नभेदात् त्रिधा। तत्रेच्छाजन्या प्रवृत्तिः । अत्र कृतिसाध्यताज्ञानमिष्टसाधनता. ज्ञानं बलवदनिष्टाऽननुबन्धित्वज्ञानमपि कारणम् । एवं विधेरपि प्रवर्तकत्वानुरोधेनेष्टसाधनत्वादिकमेवार्थः । आचार्यास्तु आप्ताभिप्रायो विध्यर्थः, लिङ्मात्रस्येछावांचित्वात् । 'स्वर्गकामो यजेते'त्यादौ यागः स्वर्गकामकृतिसाध्यतया आप्तेष्ट इत्यर्थ इति । द्वेषजन्या निवृत्तिः । जीवनादृष्टजन्यो गुणो जीवनयोनियत्नः, स चातीन्द्रियः प्राणसञ्चारकारणम् । आद्यपतनाऽसमवायिकारणं गुरुत्वं, नित्यमनित्यं च । आद्यस्यन्दनाऽसमवायिकारणं द्रवत्वं; सांसिद्धिकं नैमित्तिकं च, नित्यमनित्यं च । जलपरमाणौ नित्यमन्यत्राऽनित्यम् । 'चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः, नित्योऽनित्यश्च । वेगस्थितिस्थापकभावनाभेदात् संस्कारस्त्रिविधः । कर्मजवेगजभेदाद् वेगो द्विविधः, मूतमात्रवृत्तिः । अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिरतीन्द्रियः । क्षित्यादिचतुष्टयवृत्तिरिति केचित् । स्मरणप्रत्यभिज्ञाजनकः उपेक्षाऽनात्मक निश्चयजन्यो जीववृत्तिरतीन्द्रियो भावनासंस्कारः । विहितकर्मजन्यो धर्मः स्वर्गादिसाधनम् । निषिद्ध