________________
संयोगे सति पूर्वपटनाशः ततः पटान्तरोत्पत्तिरित्यपि बोध्यम् । मूर्तयोः समानदेशताविरोधाच्च पूर्वतन्तव एव तन्वन्तरसंयोगात् पूर्वपटे सत्येव पटान्तरमारभन्त इत्यलम् । १४. पृथग्व्यवहारासाधारणकारणं पृथक्त्वं, तन्नित्यतादि सङ्ख्यावत् । संयुक्तव्यवहारहेतुः संयोगः । तत्र श्येनशैलादिसंयोगोऽन्यतरकर्मजः, मेषयोः संयोग उभयकर्मजः, कपालतरुसंयोगात् तरुकुम्भयोः संयोगः संयोगजः संयोगः । तत्र कर्मजोऽप्यभिघातनोदनभेदाद् द्विधा । तत्र शब्दहेतुराद्यः, शब्दाऽहेतु. द्वितीयः । संयोगनाशको गुणो विभागः । पूर्ववत् त्रिविधः । तृतीयो विभागजो विभागः कारणमात्रविभागजन्यः कारणाऽकारणविभागजन्यश्च । तत्राद्यो यत्रैककपाले कर्म, ततः कपालद्वयविभागः, ततो घटारम्भकसंयोगनाशः, ततो घट: नाशः, ततस्तेनैव कपालविभागेन सकर्मणः कपालस्याऽकाशविभागो जन्यते, तत आकाशसंयोगनाशः, तत उत्तरप्रदेशसंयोगः, ततः कर्मनाश इति । एकस्य कर्मण- आरम्भकसंयोगप्रतिद्वन्द्विविभागजनकत्वस्याऽनारम्भकसंयोगप्रतिद्वन्द्वि. विभागजनकत्वस्य च विरोधान्न तेन कर्मणैव देशान्तरविभागो जन्यते । आरम्भकसंयोगप्रतिद्वन्द्विविभागवतोऽवयवस्य सति द्रव्ये देशान्तर विभागाऽसम्भवान्न द्रव्यनाशात् पूर्वमपि देशान्तरविभाग इति । एवं यत्र हस्तक्रियया हस्ततरुविभागे शरीरेऽपि विभक्तप्रत्ययो भवति, तत्र कारणाऽकारणविभागेन कार्याऽकार्यविभाग इति ।
परापरव्यवहारासाधारणकारणे परत्वाऽपरत्वे । ते च द्विविधे, दिक्कृते कालकृते चेति । तत्र बहुतरमूर्तसंयोगान्तरितत्वज्ञानाद् दैशिकपरत्वमुत्पद्यते, तदल्पीयस्त्वज्ञानात् तदपरत्वम् । अत्र दिपिण्डसंयोगोऽसमवायिकारणम् । एवं बहुतरसूर्यपरिस्पन्दान्तरितजन्मज्ञानात् कालिकपरत्वं, अल्पतरसूर्यपरिस्पन्दान्तरितजन्मज्ञानात् तदपरत्वम् । अत्र कालपिण्डयोः संयोगोऽसमवायिकारणम् । अपेक्षाबुद्धिनाशाच्च तन्नाशः ।
2.
11: