________________
वदवयवैरारब्धेऽवयविनि रसाभावेऽपि न क्षतिः । नव्यास्तु अवयविन्यव्याप्य. वृत्येव नानारूपं; प्रतिबध्यप्रतिबन्धकभावकल्पने गौरवात्, उक्तविरोधे मानाभावाच्च । एवं स्पर्शादिकमपि बोध्यमिति वदन्तीति ।।.
- रसनाग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । घ्राणग्राह्यो गुणो गन्धः । स द्विविधः, सुरभिरसुरभिश्च । त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । शीतोष्णाऽनुष्णाशीतभेदात् त्रिविधः । अत्र रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च, अन्यत्राऽपाकजमनित्यं नित्यं च । तत्र पृथिवीष्वपि परमाणावेव रूपादीनां पाक इति वैशेषिकाः। तथाहि-अवयविनाऽवष्टब्धेश्ववयवेषु पाको न सम्भवति; परन्तु वह्निसंयोगेनाऽवयविषु विनष्टेषु स्वतन्त्रेषु परमाणुषु पाकः । पुनश्च पक्वपरमाणुसंयोगाद् द्वयणुकादिक्रमेण पुनर्महावयविपर्यन्तमुत्पत्तिरिति । नैयायिकास्तु द्वयणुकादावयविन्यपि पाको भवति । तथा हि-अवयविनां सच्छिद्रत्वाद् वह्नः सूक्ष्मावयवैरन्तःप्रविष्टैरवयवेष्ववष्टब्धेष्वपि : पाको न विरुध्यते; अनन्तावयवितन्नाशकल्पने गौरवात् । इत्थं च 'सोऽयं घट' इत्यादिप्रत्यभिज्ञाऽपि सङ्गच्छते ।
. एकत्वादिव्यवहारहेतुःसङ्ख्या, एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । द्वित्वादिकं त्वनित्यमेव; पर्याप्तिसम्बन्धेन व्यासज्यवृत्ति अपेक्षाबुद्धिजन्यं च । अपेक्षाबुद्धिश्च 'अयमेकोऽयमेक' इत्याकारिका । तत्र प्रथमम'पेक्षाबुद्धिः, ततो द्वित्वोत्पत्तिः, ततो द्वित्वत्वनिर्विकल्पज्ञानं, ततो द्वित्वत्वविशिष्टप्रत्यक्षमपेक्षाबुद्धिनाशश्च, ततो द्वित्वनाशः ।
मानव्यवहारासाधारणं कारणं परिमाणम् । तच्चतुर्दा, अणु महद् दीर्घ हस्वं चेति । तन्नित्यमनित्यं च । तत्राऽनित्यं त्रिधा-सङ्ख्याजन्यं परिमाणजन्यं प्रचयजन्यं च । तत्राद्यं द्वयणुकादौ, द्वितीयं घटादौ, तृतीयं तूलकादौ । आश्रयनाशाच्चास्य नाशः । परमाणुविश्लेषे द्वयणुकस्य नाशः, तन्नाशे च त्रसरेणुनाशः, एवं क्रमेण महावयविनो नाशस्यावश्यकत्वात् । एवं पटादौ तन्त्वन्तर