________________
अब नैयायिकाः, द्रव्यगुणकर्म सामान्यविशेषसमवायाऽभावाः सप्त पदार्थाः । शक्तिसादृश्यादयो नातिरिक्ताः पदार्थाः । बढेरिव मण्याद्यभावस्यापि दाहादि
हेतुत्वान्न मण्यादिसमवधाने दाहः । न चोत्तेजके सति प्रतिबन्धक सद्- . भावेऽपि कथं दाह इति वाच्यम्; उत्तेजकाभावविशिष्टमण्याद्यभावस्य हेतुतावि
वक्षणात् । वह्नौ दाहानुकूलानन्तशक्ति-तत्प्रागभाव-ध्वंसकल्पनायां च गौरवम् । सादृश्यमपि तभिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं, यथा चन्द्रसादृश्यं मुखे ।
तत्र गुणक्रियाश्रयाः समवायिकारणानि पृथिवीजलतेजोवाय्वाकाशकालदिगारममनांसि द्रव्याणि । कार्यस्य संयोगस्य विभागस्य वा समवायिकारणतावच्छेद कतया द्रव्यत्वजातिसिद्धिः । गुणाश्च रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथ
क्वसंयोगविभागपरत्वाऽपरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रव्वत्वस्नेहसंस्कारअ-धर्माऽधर्मशब्दाः। द्रव्याश्रिता निर्गुणा गुणाः । द्रव्याश्रितत्वं च द्रव्यत्वव्यापकतावच्छेदकसत्ताभिन्नजातिमत्त्वं; भवति च गुणत्वं द्रव्यत्वव्याकतावच्छेदकं; द्रव्यत्वं कर्मत्वं वा न तथा, द्रव्यत्वत्वादिकं तु न जातिरिति तद्व्युदासः । निर्गुणत्वमपि सामान्यवत्त्वे सति कर्मान्यत्वे सति निर्गुणत्वं बोध्यमिति न जात्यादावतिव्याप्तिः । द्रव्यकर्म भिन्नसामान्यवनिष्ठकारणताबच्छेदकतया गुणत्वजातिसिद्धिः ।
तत्र चक्षुर्मात्रग्राह्यो गुणो रूपम् । रूपत्वजातिस्तु प्रत्यक्षसिद्धा । एवं नीलस्वादिकमपि तत् । शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात् सप्तविधम् । नीलपीताधवयवारब्धस्यावयविनो नीरूपत्वेऽप्रत्यक्षत्वप्रसङ्गात्। तत्र व्याप्यवृत्तिनीलाधत्पत्तौ पीतावच्छेदेनाऽपि नीलोपलब्धिप्रसङ्गात्; व्याप्यवृत्तिजातीयगुणानामन्याप्यवृत्तित्वे विरोधात्; अव्याप्यवृत्तिनीलादेरप्यनुत्पादात्, नानाजातीयरूपैरवयविनि विजातीयं चित्रं रूपमारभ्यते इति चित्ररूपसिद्धिः । इत्थं च पीताद्यारम्भे नीलादीनां प्रतिबन्धकत्वकल्पनादवयविनि न पीताद्युत्पत्तिः । एतेन स्पर्शोऽपि व्याख्यातः । रसादिकमपि नाऽव्याप्यवृत्ति । किन्तु नानाजातीयरस